प्रधानमंत्री नरेन्द्रमोदी गुजराते गांधीनगर- रेलयानस्थात्रात् नवीनाधुनिकं वंदेभारतम् इति द्रुतरेलयानसेवाम् शुभारभत् । प्रधानमंत्री नरेन्द्रमोदी अहमदाबाद-मेट्रोरेल परियोजनायाः प्रथमचरणस्योद्घाटनं कृतवान् अहमदाबादे विशाल जनसभा संबोधयन् प्रधानमंत्री प्रोक्तवान् यत् एकविंशतितमाब्दस्य भारतं देशस्य विभिन्ननगरेभ्यः गतिं प्रदास्यति |सः प्रोक्तवान् यत् प्रवर्तमानं समयम् आवश्यकतां च उद्दिश्य नगराणां पुनर्विकासस्य समयः समागतवान् । प्रधानमंत्री प्रोक्तवान् यत् पुरातननगराणां परिष्कारेण विस्तारेण च सह वैश्विक-व्यापारस्य आवश्यकताम् उद्दिश्य नूतननगराणां निर्माणकार्य प्रचलदस्ति । प्रधानमंत्री नगराणां विकासाय अद्यतनं दिवस ऐतिहासिकं प्रतिपादितवान् निर्धनान्मध्यम वर्गीयजनान् च प्रति प्रशासनस्य संकल्पं पुनरुच्चारयन् प्रधानमंत्री प्रोक्तवान् यत् सर्वकारण देशे विद्युच्चालितानि बसयानानि निर्मातुं संचालयितुं च फेम इति योजना समारब्धा अपि च अस्यां योजनायां सप्तसहस्राणि विद्युच्चालितबसयानानि अनुमतानि । केंद्रीय मन्त्री हरदीपसिंहपुरी प्रोक्तवान् यत् देशे दशोत्तर-अष्टशत-किलोमीटरमितस्य मेट्रो रेलयान- सम्पर्कजालस्य कार्यं पूर्णताम् अध्यगच्छत् अपि च द्वयशीत्यधिक-नवशत- किलोमीटरमितस्य मेट्रोरेलयान्-मार्गस्य निर्माणकार्यं प्रचलति ।











