बिलस्य वाणी न कदापि मे श्रुता ( पञ्चतन्त्र कथा )

कस्मिंश्चित् वने खरनखरः नाम सिंहः प्रतिवसति स्म। स: कदाचित् बुभुक्षया इतस्तत: भ्रमन् आसित्। परन्तु कमपि मृगं न प्राप्तवान्। ततः सूर्यास्तमनसमये पर्वते महतीं गुहां दृष्टवान्।
तत्र गत्वा चिन्तितवान्। “अत्र कोऽपि मृगः रात्रौ निश्चयेन आगमिष्यति। अतः अहम् अत्रैव गुप्तः तिष्ठामि। ततः तस्याः गुहायाः निवासी दधिपुच्छः नाम शृगालः आगतवान्।
सः गुहां प्रविष्टस्य सिंहस्य पदपद्धतिं दृष्टवान्, न तु बहिः आगतस्य। ततः चिन्तितवान्। “अहो ! किमिदम्? गुहायाः अन्तः सिंहः स्यात्।
किं करोमि? कथं जानामि? एवं विचिन्त्य गुहायाः द्वारे स्थित्वा उच्चैः आहूतवान्। “अहो बिल ! अहो बिल ! कञ्चित् कालं तूष्णीं भूत्वा पुनः तथैव उक्तवान्। “भोः ! किमर्थं न वदसि ?
प्रतिदिनं यदा अहम् आगच्छामि तदा मया तव आह्वानं क्रियते। त्वया च मम उत्तरं दीयते। यदि मम उत्तरं न प्रयच्छसि, तर्हि अहम् अन्यबिलं गमिष्यामि।
शृगालस्य वचनं श्रुत्वा सिंहः चिन्तितवान्। ” नूनं यदा सः आगच्छति तदा एषा गुहा प्रतिदिनम् उत्तरं ददाति।
अद्य तु मद्भयात् न वदति। अथवा साध्विदम् उच्यते-
भयसन्त्रस्तमनसां हस्तपादादिकाः क्रियाः।
प्रवर्तन्ते न वाणी च वेपथुश्चाधिको भवते्।।

अतः अहमेव तम् आह्वयामि। तत् श्रुत्वा प्रविष्टं शृगालम् अहं भक्षयामि। तथैव सिंहेन आह्वानं कृतम्। सिंहनादस्य प्रतिध्वनिना गुहा पूर्णा।
वने दूरे स्थिताः अन्ये मृगाः अपि भीताः अभवन्। शृगालः झटिति पलायनं कृतवान्।
अत एव उच्यते:-
अनागतं यः कुरुते स शोभते स शोच्यते यो न करोत्यनागतम् ।
वनेऽत्र संस्थस्य समागता जरा बिलस्य वाणी न कदापि मे श्रुता ॥