अस्मिन् वर्षे करवाचौथः अक्टोबर्-मासस्य १३ दिनाङ्के आचर्यते
उत्तरभारते “ करवा-चौथ “ इति प्रसिद्धं करकचतुर्थी ( कार्तिकचतुर्थी ) पर्व हिन्दूनाम् एकं प्रमुखपर्वदिनम् । विशेषतः उत्तरभारते पञ्जाब, देहली, उत्तरप्रदेशः, हरियाणा, मध्यप्रदेशः तथा राजस्थानम् एतेषु राज्येषु महिलाभिः श्रद्धया आचर्यमाणं व्रतम् इदम् ।( आन्ध्रप्रदेशराज्ये एतं व्रतम् अट्लताड्डे इति नाम्नि आचरन्ति । परन्तु आचरणविधिः भिन्ना एव )
व्रतस्य विवरणम्
एतत् व्रतं कार्तिकमासस्य कृष्णपक्षस्य चतुर्थीदिने आचरन्ति महिलाः । गृहिण्यः (विवाहितमहिलाः ) पत्युः दीर्घायुष्यं स्वस्य अखण्डसौभाग्यं च कामयन्त्यः एतं व्रतम् आचरन्ति । कार्तिक-कृष्ण-चतुर्थ्यां प्रातः सूर्योदयात् पूर्वं चतुर्वादनादारभ्य रात्रौ चन्द्रदर्शनपर्यन्तं व्रताचरणं कुर्वन्ति सुमङ्गलाः महिलाः ।
ग्रामीणमहिलाः, आधुनिकनार्यः एवं सर्वाः महिलाः ’करवा चौथ’ व्रतं श्रद्धया उत्साहेन च आचरन्ति प्रतिवर्षम् । विविधमत-वर्ण-सम्प्रदायिनः सर्ववयस्काः च महिलाः एतं व्रतम् आचरन्ति । शास्त्रानुगुणं कार्तिकमासस्य कृष्णपक्षस्य चन्द्रोदयव्यापिन्यां चतुर्त्यां एषः व्रतः आचरणीयः । पत्युः कृते दीर्घायुष्यं स्वस्य कृते अखण्डसौभाग्यं च ददातु इति अस्मिन् दिने गृहिण्यः भालचन्द्रं गणेशं पूजयित्वा प्रार्थयन्ति । तथैव केषुचित् स्थानेषु ’चौथमातामन्दिरं( चतुर्थीमातुः मन्दिरम् ) गत्वा मातुः पूजाम् अपि कुर्वन्ति । सङ्कष्टहरचतुर्थीव्रतं यथा आचरन्ति तथैव व्रतधारिण्यः महिलाः करवा-चतुर्थीव्रतस्य दिने अपि आदिनम् उपवासं कुर्वन्ति । रात्रौ चन्द्रदर्शनं कृत्वा चन्द्राय अर्घ्यं दत्त्वा अनन्तरमेव भोजनं कुर्वन्ति ।
एतं व्रतं द्वादशवर्षाणि ( १२ वर्षाणि ) अथवा षोढषवर्षाणि ( १६ वर्षाणि ) यावत् निरन्तरं प्रतिवर्षं कुर्वन्ति महिलाः । व्रतस्य अवधिपूर्तेः अनन्तरं व्रतस्य उद्यापनम् ( उपसंहारः ) क्रियते । याः सुनङ्गलाः महिलाः आजीवनम् एतं व्रतम् आचरितुमिच्छन्ति ताः आजीवनं व्रतम् आचरितुं शक्नुवन्ति । एतादृशं सौभाग्यदायकं व्रतम् अन्यत् किमपि नास्ति इति जनानां महती श्रद्धा । अतः सुमङ्गलाः महिलाः आजीवनं व्रताचरणं कर्तुम् इच्छन्ति ।
भारतदेशे अनेकेषु स्थानेषु चौथमातामन्दिराणि सन्ति । तेषु अतिप्राचीनम् अतिप्रसिद्धं च मन्दिरं राजस्थानराज्ये अस्ति । राजस्थानराज्यस्य सवाईमाधोपुरजनपदे बरवाडा ग्रामे एतत् प्राचीनं मन्दिरं स्थितमस्ति । महाराजेन भीमसिंह-चौहानेन निर्मितस्य एतस्य मन्दिरस्य कारणतः बरवाडा ग्रामः “चौथ का बरवाडा” ( चतुर्थ्याः बरवाडा ) इति प्रसिद्धः जातः अस्ति ।
व्रताचरणविधिः
करवा इत्युक्ते लघु मृत्तिकाघटः । महिलाः व्रताचरणदिनात् पञ्चदशदिनेभ्यः पूर्वमेव नूतनघटं क्रीत्वा प्रतस्य सज्जतायाः आरम्भं कुर्वन्ति । घटं क्रीत्वा वर्णलेपनम् कृत्वा सुन्दरैः चित्रैः अलङ्कुर्वन्ति । अलङ्कृते घटे कङ्कणानि, वर्णमयपट्टिकाः, गृहे निर्मितानि मधुराणि, अलङ्कारवस्तूनि लघुवस्त्रं च पूरयन्ति । पूजास्थालिकाः अलङ्कृत्य पूजावस्तूनि उपायनवस्तूनि च पूरयित्वा सज्जीकुर्वन्ति । चतुर्थीदिने प्रातः काले सूर्योदयात् पूर्वं स्नात्वा पत्युः दीर्घायुष्यार्थम् आखण्डसौभाग्यसिध्यर्थम् उपवाससहितस्य व्रताचरणस्य सङ्कल्पं कुर्वन्ति । मृत्तिकापीठं विरचय्य अलङ्कृते तस्मिन् पीठे शिव-पार्वति-गणेशः एतेषां प्रतिष्ठापनं कृत्वा पूजनं कुर्वन्ति । कुत्रचित् मृत्तिका-गोमययोः मिश्रणेन निर्मितं “गौरमातुः” मूर्तिं पूजयन्ति ।
अनन्तरं सालङ्कृताः वधूवस्त्रधारिण्यः व्रतधारिण्यः वर्तुलाकारे उपविष्य पारम्परिकगीतानि गायन्ति । गायनसमये स्वने अलङ्कृतानां उपायनस्थालिकानां परस्परम् आदानप्रदानं कुर्वन्ति । पर्वदिने सायङ्काले महिलाः बन्धुजनानां मित्राणां च गृहाणि गत्वा शुभाशयम् उक्त्वा घटानां (करवा ) विनिमयं कुर्वन्ति। रात्रौ चन्द्रोदयानन्तरं चन्द्रदर्शनं कृत्वा तण्डुलपिष्टेन निर्मितं चन्द्रबिम्बं समर्च्य अर्घ्यप्रदानं कुर्वन्ति । अनन्तरं पतिः पत्न्याः कृते जलं पाययति । एवम् उपवासपरिसमाप्तेः अनन्तरं गृहजनैः सह मिलित्वा भोजनं कुर्वन्ति ।
एतस्य व्रतस्य माहात्म्यम् अधिकृत्य अनेकाः कथाः सन्ति जनेषु । कथाः किं वा वदन्तु वृतकर्त्रीणां सङ्ख्या तथैव श्रद्धा च शुक्लपक्षस्य चन्द्रः इव वर्धमाना एव अस्ति ।
अस्मिन् वर्षे १३ अक्टोबर् दिनाङ्के करवाचौथस्य उत्सवः आचर्यते।
सारः समानः एव अस्ति चेदपि सम्पूर्णे भारते कतिपयैः विविधतायै करवाचौथः आचर्यते । दिल्ली, उत्तरप्रदेश, हिमाचलप्रदेश, पञ्जाब, हरियाणा, मध्यप्रदेश, राजस्थान इत्यादिषु देशेषु आचर्यते, भारतस्य राज्येषु कथं आचर्यते इति विषये किञ्चित् अन्तरं वर्तते।
पञ्जाबदेशे करवाचौथात् एकरात्रौ पूर्वं विवाहितानां महिलानां मातरः तस्याः कृते बाया प्रेषयन्ति, यत्र नारिकेलं, वस्त्रं, सिन्दूरं (सिन्दूरं), फलं, मिष्टान्नं च भवति ।
राजस्थान प्रदेशे उत्सवस्य समग्रं लोकाचारः समानः एव तिष्ठति तथापि तस्मिन् दिने खादितस्य भोजनस्य भेदः द्रष्टुं शक्यते । अत्र सर्गी मधुरदुग्धशुष्कफलमिष्टितैः निर्मितं वर्मिसेल्लिङ्गं भवति ।
जम्मू-देशे महिलाः स्वस्य करवासु गोधूम-धान्यं योजयन्ति ।
करवाचौथस्य पर्वस्य आरम्भः सार्गी इत्यनेन भवति । करवाचौथदिने सूर्योदयपूर्वं भक्ष्यते । करवाचौथं धारयन्तीनां स्त्रियाणां कृते श्वशुरा सार्गी करोति। चन्द्रोदयात् एकघण्टापूर्वं करवाचौथस्य सायंकाले सम्पूर्णशिवकुलस्य यथाविधिपूजनं भवति ।











