गोवर्धन धराधार गोकुल त्राणकारक। विष्णुबाहु कृतोच्छ्राय गवां कोटिप्रभो भव।।

अस्माकं भारतवर्ष प्रतिवर्ष बहूनि पाणिमान्यन्ते। तेष पर्वेष दीपावालि: हिन्दुनों पवित्रं पार्वमस्ति। इंद्र कथ्यते यत् अस्मिन् एव दिन श्रीराम रावणादि राक्षसान् निहत्य सीतया लमाणेन च सह चतुर्दशवर्षाणां वनवासं समाप्य अयोध्यां प्रत्यागच्छन्। तदा अयोध्यावासिनः प्रसन्नी भूत्वा स्वहिप राजमागेषु। च दीपकान् प्रज्वालयन्। जाना श्रुत्यानुसारेण अस्मिन् एव दिने समुद्रमंथने लक्ष्मी प्रकटिता अभवत्। भारतवर्षस्य एकः महान् उत्सवः अस्ति। दीपावलि इत्युक्ते दीपानाम् आवलिः। अयम् उत्सवः कार्तिकमासास्य अमावस्यायां भवति। कार्तिकमासस्य कृष्णपक्षस्य त्रयोदशीत: आरभ्य कार्तिकशुद्धद्वितीयापर्यन्तं 5 दिनानि यावत् आचर्यते एतत् पर्व। सायंकाले सर्वे जनाः दीपानां मालाः प्रज्वालयन्ति।
दीपावलीपर्वस्य परदिने गोवर्धनपूजा भवति । गोधन इत्यर्थः गावः पूज्यन्ते। अन्नकूट इति नाम्ना अपि जनाः जानन्ति । भारतीयलोकजीवने अस्य उत्सवस्य महत्त्वम् अस्ति । अस्मिन् उत्सवे पुरुषस्य प्रकृत्या सह प्रत्यक्षः सम्बन्धः दृश्यते । अस्य उत्सवस्य स्वकीयः विश्वासः, लोककथा च अस्ति । गङ्गा इव शुचिरिति शास्त्रेषु कथितम् । गौ अपि देवी लक्ष्मीरूपा कथ्यते । यथा देवी लक्ष्मी सुखसमृद्धिदायिनी, तथा गोमाता अपि स्वदुग्धेन आरोग्यरूपं धनं प्रयच्छति । तेषां वत्सः क्षेत्रेषु धान्यं वर्धयति। तादृशी गौः समस्तमानवजातेः पूज्यः मानितः च भवति। गोमादरं दर्शयितुं, कार्तिक शुक्ल पक्ष प्रतिपदा दिवसे गोवर्धनं च गां च तस्य प्रतीकत्वेन पूज्यते । गोवर्धनपूजा देशे सर्वत्र अनेकधा आचर्यते । दक्षिणभारते महाराष्ट्रे च बलिप्रतिबा अथवा बलिपदवा इति नाम्ना आचर्यते । अस्मिन् दिने भगवान् विष्णुः राक्षसराजं बलिं पाताललोकं प्रति धक्कायितवान् इति विश्वासः अस्ति । अस्मिन् दिने भक्ताः प्राक् स्नानं कृत्वा पूजास्थानं स्वच्छं कृत्वा अलङ्कारं कुर्वन्ति, दीपं प्रज्वालयन्ति च ।