प्रधानमन्त्रिणा नरेन्द्र मोदिना दशलक्ष-कर्मिणां कृते आजीविका-प्रदान अभियानान्तर्गते रोजगार इति आजीविका मेलकस्य शुभारम्भः करिष्यते। युवभ्यः आजीविकायाः अवसर प्रदानाय नागरिकाणां कल्याणं सुनिश्चेतुं अथ च प्रधानमंत्रिणः निरंतर -प्रतिबद्धतां पूरयितुं एकं महत्वपूर्णं क्रमं भविष्यति। अभियानमिदम् दृश्य-संवादमाध्यमेन प्रारप्स्यते। समारोहेऽस्मिन् प्रथमक्रमे पंच-सप्तति-नवनियुक्तयुवभ्यः नियुक्ति-पत्राणि प्रदास्यन्ते। सम्पूर्ण-राष्ट्रे चितानां नूतन आवेदकानां नियुक्तिः केन्द्र-सर्वकारस्य अष्टात्रिंशत्-मन्त्रालयेषु विभागेषु च भविष्यति। नियुक्तिनां क्रमः अ, ब, स इति भविष्यति।











