भारतस्य प्राक्तनतमः मतदाता दिवङ्गता

देशस्य प्राक्तनतमः षडुत्तरैकशततमवर्षीय मतदाता मास्टर श्याम शरण नेगी-वर्य: नवम्बर मासस्य पञ्च दिनाङ्के , प्रातः दिवंगतः । सः विगतेभ्यः नैकदिनेभ्यः अस्वस्थः आसीत् । सः हिमाचलप्रदेशस्य किन्नौर मण्डलान्तर्गत-कल्पा-क्षेत्रे वसतिस्म । किन्नौर जनपदस्य उपायुक्तः आबिद हुसैन: असूचयत् यत् नेगीवर्यस्य अन्तिमसंस्कारः जनपदप्रशासनं पूर्णसम्मानेन सह विधास्यति। श्रीनेगीवर्यः स्वमतदानं दिनत्रयपूर्व पत्राचारमाध्यमेन कृतवानासीत्। मुख्यमंत्री जयरामठाकुरः नेगीवर्य प्रति स्वशोकसंवेदनाम् अप्राकटयत्। निर्वाचनायोगः अपि श्रीश्यामसरणनेगीवर्य प्रति शोकसंवेदनां प्रकटयन् एषाहानिः अपूरणीया अस्तीति प्रत्यपादयत्। एकेन ट्वीट्सन्देश माध्यमेन सूचनाप्रसारणमन्त्री अनुरागठाकुरः उक्तवान् यत् श्रीनेगी षडुत्तरैकशतवर्षीये जीवने चतुस्त्रिंशत् वारं मतदानं कृत्वा जनान् अजागरयत्।