केन्द्रीय गृहसहकारितामन्त्री अमितशाहः गत सप्तविन्शति अक्तूबरे हरियाणाया: सूरजकुण्डे सर्व राज्याणां गृहमंत्रिणः द्विदिवसात्मकस्य चिन्तन शिविरस्य अध्यक्षतां कृतवान् । सहैव, प्रधानमन्त्री नरेन्द्रमोदी दृश्य-श्रव्य तन्त्र-माध्यमेन चिन्तनशिविरं सम्बोधितवान् । अस्मिन् चिन्तनसम्मेलने राज्यानां गृहमन्त्रिणः केन्द्र शासित प्रदेशानाञ्च उप राज्यपालाः प्रशासकाश्च भागं कृतवन्तौ । एतदतिरिच्य राज्यानां गृह-सचिवा: आरक्षि महानिदेशकाः केन्द्रीय-शस्त्र आरक्षि बलानि अथ केन्द्रीय-आरक्षि-संघटनानां महानिदेशकाः अपि चिन्तन- शिविरे सम्मिलिताः अभवन्। अस्य चिन्तन- शिविरस्य उद्देश्यं अस्मिन् वर्षे प्रधानमन्त्रिणः नरेन्द्रमोदिन: स्वतन्त्रता-दिवस-भाषणे उद्घोषितानां “विजन-सप्तचत्वारिंशदधिकद्विसहस्त्र इत्याख्यानां अपि च पंचप्रणानां” कार्यान्वयनाय कार्ययोजनायाः निर्माणम aaseet । अस्य शिविरस्य उद्देश्यं केन्द्र-राज्य-स्तरयोः विभिन्नानां हितधारकाणां मध्ये योजनायां समन्वये च भूयोपि सामञ्जस्य-स्थापनम सन्ति।
चिंतनशिविरे सम्बोधयन् , प्रधानमन्त्री नरेन्द्रमोदी प्रोक्तवान् यत् पञ्च प्रणाः सुशासनस्य पथप्रदर्शकत्वेन भक्तिव्याः । सः प्रोक्तवान् यत् अमृतकाले भारताय विकासस्य परिकल्पना साकारं कर्तुं पंच-प्रणानां महत्वपूर्ण भूमिका भविष्यति। श्रीमोदी प्रोक्तवान् यत् संविधाने विधिव्यवस्थे यद्यपि राज्याणां दायित्वं प्रतिपादितमस्ति तथापि, एतयोः संबंध: देशस्य एकतया अखण्डतया चापि अस्ति । देशस्य सुदृढीकरणेन देशस्य प्रत्येक नागरिकः सुदृढः भविष्यति एतदेव सुशासनं कथ्यते। सः प्रोक्तवान् यत् प्रत्येकेन राज्येण एषः लाभः पंक्तिबद्धं प्रत्येकं जनं यावत् नेतव्यः अपि च एतत् सुनिश्चेतुं गृहमन्त्रिणः भूमिका अधिक महत्वपूर्णा अस्ति। प्रधानमन्त्री मोदी प्रोक्तवान् यत् साइबर-अपराधः स्यादथवा शस्त्राणां मादकपदार्थाना अधिक्रय-विक्रयणाय ड्रोन यान्त्रिक्याः प्रयोगः स्यात् . सर्वकारैः एताभिः समस्याभिः सुरक्षायै नूतनोपाया: चिन्तनीया: । विधि-व्यवस्थयोः यथावस्थाम् सुनिश्चेतु अहोरात्रं व्यावस्थासु संशोधनानि भवितव्यानि । सः प्रोक्तवान् यत् गतेषु वर्षेषु विधिव्यवस्थाम् इतोपि सुदृढं कर्तुं अनेकानि संशोधनानि कृतानि यैः शान्त्याः वातावरणं प्रकल्पितम् प्रधानमन्त्री प्रोक्तवान् यत् विगतेषु अष्टवर्षेषु देशे नवसल गतिविधिभिः प्रभावित जनपदानां संख्यासु न्यूनता सज्जात। सः अकथयत् यत् पूर्वोत्तरराज्याणि स्युः अथवा जम्मू-कश्मीर: स्यात् सर्वाणि अपि राज्याणि शान्त्या सह् अग्रे वर्धन्ते।
अस्मिन् सन्दर्भे केन्द्रिय-वाणिज्यम् अथ खाद्यमन्त्री पीयूष गोयल: व्यापारिकसमुदायं सम्पार्थितवान् यत् ते प्रधानमन्त्रिणः नरेन्द्रमोदिनः पंच-प्रणानां भागरूपेण सप्तचत्वारिंशतोत्तर- द्विसहस्रतमाब्दं यावत् भारतं विकसितराष्ट्रं विधातुं योगदानं कुर्युः । अस्मै लक्ष्यप्राप्तये सामूहिक दायित्वं सबलं प्रतिपादयन् श्रीगोयलः व्यापारिवर्गेभ्यः अकथयत् यत् ते उत्पादानां विपणनं प्रोत्साहितं कुर्युः अपि च ‘मेक इन इंडिया कार्यक्रमस्य सफलता सुनिश्चेतुं परस्परसाहाय्यं कुर्वन्तु। सः प्रोक्तवान् यत् विगतयोः द्वयोः वर्षयोः सर्वकारस्य प्रयासैः देशस्य सार्धद्विशततोधिकेषु जनपदेषु हॉलमार्क केन्द्राणि स्थापितानि अपि च अधुना नवतिप्रतिशतम् आभूषणानि हॉलमार्क इति प्रमाणचिह्न युक्तानि सन्ति। निर्यातस्य विषये मंत्री प्रोक्तवान् यत् अस्मिन् वर्षे अयं सम्वर्ध्य सार्ध-सप्त खर्बुद-डालरमितं यावत् प्राप्स्यति इत्यनुमीयते विगतवर्षे अयं निर्यातः पञ्चसप्तति-अर्बुदधिक षट्-खर्बुद-डालर-मितस्य आसीत्। श्रीगोयलः कार्पास उद्योगस्य हितधारकान् प्रोक्तवान् यत् ते एकस्मिन् कार्यनीतौ विचारं कुर्युः येन कार्पासोत्पादानां उचितमूल्यं प्राप्नुयुः । श्रीगोयल स्पष्टं कृतवान् यत् ओदनस्य निर्यातविषये साम्प्रतं यावत् नीतौ किमपि परिवर्तनं न करिष्यते । सः प्रोक्तवान् यत् अशीति-कोटि-निर्धनानां सहायतायै प्रतिवर्ष दशकोटि-टन-परिमितस्य अनाजस्य आवश्यकतां निध्याय सर्वकारः राष्ट्रिय खाद्य सुरक्षायाः विषये विशिष्टध्यानं दध्यात् ।











