भोजपुरी-लोकगीतेषु सूर्यषष्ठी-व्रतस्य महत्त्वम्

मार्कण्डेय शारदेयः (पटना, बिहारस्थः)

अस्माकं संस्कृती नाना व्रताः उत्सवाश्च तेषु केचित् शास्त्रसम्मताः। केचिच्च लोकसम्मताः। श्रुतयः स्मृतयश्च अस्माकम् आचाराणाम् आधाराः। अतः लोक-परम्परापि न इतरा व्यवस्था। सा परिस्थिति-जन्या एव। देशस्य सर्वे भूभागाः न समानाः। क्वचित् पर्वतप्रदेशाः तु क्वचित् गंगादि-नदीतटीयाः। क्वचित् समुद्रतटीयाः, तु क्वचित् बालुकामयाः। संस्कृतिः एकैव, परन्तु भौगोलिकादि- कारणेन आधान-परिधानेषु, खाद्य-पेयेषु, भाषा-विभाषासु च न साम्या। येन केनापि हेतुना व्रतोत्सवाः अपि क्वचित् लोकगृहीताः क्वचिद् अप्रचलिताः। इदानीं तु मिडिया-माध्यमेन एकाद् एकतराः क्षिप्ताः प्रकटिताः भवन्ति, मानसपटले आगच्छन्ति। तेषां फलश्रुतिं च विज्ञाय जनाः आचरन्तः अपि । पुरुषाणाम् अपेक्षया नारीणाम् अस्मिन् पक्षे महती भूमिका दृश्यते।
सूर्यषष्ठी व्रतम् अपि मूलतः बिहारप्रदेशे प्रचलितेषु व्रतोत्सवेषु प्रमुखम्। किन्तुः साम्प्रतम् अस्य व्याप्तिः अन्यप्रदेषु, विदेशेषु चापि दृश्यते। अस्य अनुष्ठानं चतुर्दिवसीयम्। प्रथमे दिने शुद्धं स्नानं भोजनं च। शुद्धस्य भोजनस्य अभिप्रायो ऽयं अतैल-निर्मितानि व्यंजनानि, अनिषिद्धाः शाकाः इति । प्रायेण घृतस्य प्रयोगेण पक्वानि व्यंजनानि एव। प्रचलने अलाब्वाः व्यंजनेन सह ओदनम् एव मुख्यं भोजनम्। द्वितीये दिने नक्तव्रतम्। तात्पर्यमिदं यद् दिनम् उपोष्य गते सायंकाले भोजनम्। प्रायेण गुड-तण्डुलयोः योगेन पक्वं पायसं भोजपुर्यां जाउर इति, गोधूमरोटिका च अस्मिन् आहारे गृह्येते । लवणं निषिद्धम्। अस्य विधेः लौकिकं नाम खरना, लोहण्डा चेति। तृतीये दिने निर्जलव्रते सायम् कस्मिंश्चिद् जलाशयम् उपगम्य स्नात्वा शुद्धं नवीनम् अहतं च वस्त्रं धृत्वा तत्र स्वच्छायां सुलिप्तायां भूमौ जले वा स्थित्वा अस्तगामिने। भास्कराय वंशपात्रे फल-मूल-पक्वान्नादि – पूजासामग्रीम् आदाय अर्घ्यदानम्। यथाशक्ति रात्रि जागरण-पूर्वकं प्रातः नित्यकृत्य निवृत्तः स्नातः शुद्धं वस्त्रं विधाय सायमिव सूर्यार्घ्य-दानमिति। ततः परं पारणमिति ।
सूर्यषष्ठी इति कथने केवलं षष्ठ्यां सूर्योपासनैव मुख्याः षष्ठीतिथे! स्वामी कार्तिकेयः। स्वयं षष्ठी च एका देवी। देवीभागवतस्य मतेन इयं मूलप्रकृतेः षष्ठांशाः कथितं च प्रधानांश- स्वरूपा या देवसेना च नारद।
मातृकासुपूज्यतमा सा च षष्ठी प्रकीर्तिता ।।
अस्याः देव्याः वैशिष्ट्यं वर्णयन् श्रीनारायणः कथयति पुत्र-पौत्रादि-यात्री च धात्री त्रिजगतां सती।
षष्ठांश-रूपा प्रकृतेः तेन षष्ठी प्रकीर्तिता ।
(६.१.७६)
शिशोः जन्मनः षष्ठे द्वादशे वा दिने अस्या एव पूजा भवति गृहे पूजा च सूतिकागारे पुरा षष्ठदिने शिशोः (६.१.८१) । अस्याः देव्याः माहात्म्यं प्रकशमाना राज्ञः प्रियव्रतस्य कथा अधिका प्रचलिता। अस्याः पूजनं प्रतिमासं विहितम्। बंगादि-प्रदेशेषु अन्यमासेषु प्रचलितमपि । किन्तु बिहारे कार्तिके चैत्रे च एतयोः कार्तिके क्रियमाणस्य सूर्यषष्ठी व्रतस्यैव प्रधानता । एतदपरं नाम प्रतिहारषष्ठी-व्रतमपि ।
सूर्यस्तु प्रत्यक्षः देव एव समस्तस्य जड़-चेतनजगतः आत्मा सूर्य आत्मा जगतः तस्थुषश्च (ऋग्वेदः १.११५.१)। अस्मिन् सर्वेषां देवानां स्थितिश्च मन्यते। अस्य भगवतः महिम्नः वर्णने वेदाः पुराणानि च बहुमुखराणि । वैज्ञानिका अपि अपारक्षमतां वीक्ष्य नतमस्तकाः । अयमेव काल-नियामकः। अतः कालमानस्य लघुतमात् बृहत्तमस्य अंगस्य अयमेव कर्ता । ज्योतिःशास्त्रे सर्वासां तिथीनाम् ईशाः निर्दिष्टाः । तेषाम् अयं सप्तमीतिथेः स्वामिरूपेण प्रतिष्ठाप्राप्तः।
षष्ठीतिथेः स्वामी कार्तिकेयः सप्तम्याश्च सूर्यः। अनयोः अस्मिन् व्रते न कोऽपि सम्बन्धो दृश्यते। किन्तुः षष्ठ्यां षष्ठीदेव्याः सप्तम्याम् आदित्यस्य युगपद् आराधनां मत्त्वा सूर्य षष्ठीव्रतस्य पुष्टिः मान्या लोकगीतेषु अपि षष्ठीमातुः (छठी मइया) आदित्य- देवस्य च स्तवनं दृश्यते।
गीतमिति शब्दः ‘गे’ धातुना सह ‘क्त’ प्रत्ययस्य योगेन सिद्धः । यद् धातुश्च मातुश्च, अर्थात् नाद-शब्दयोः समायोगादेव गीतं भवति धातु- मातु-समायुक्तं गीतमित्युच्यते बुधैः। पुनश्च गीतं द्विविधम्- मुखजं यन्त्रजं चेति गीतं च द्विविषं प्रोक्तं यन्त्र- गात्र-विभागतः । यन्त्रं स्याद्वेणु – वीणावि गात्रन्तु मुखजं मतम् ।।
पुनः निबद्धम् अनिबद्धं चेति इदं द्विविधम्। सम्भवतः इत एव गीतानां द्वे पारे चलिते। निबद्धं शिष्टसाहित्ये गृहीतं तु अनिबद्धं लोक-साहित्ये । यदा शास्त्रं कथयति अनिवदुषं भवेद् गीतं वर्णादि-नियमं विना, तु स्पष्टमेतद् यद् छान्दस- योजनायाः अभाव एव लोकगीतानां प्रभाव इति । पुनरपि विचार्य यत् स्वरे (रागभेदे इति) स्यात्, यस्य रागो व्यवस्थितः स्यात्, तत् कथं अनियन्त्रितं भवितुम् अर्हति? तदा तु प्रवाह एव नु भविष्यति !
आशयोऽयं यद् ध्वनिमुख्येषु, लयप्रधानेषु लोकगीतेषु शास्त्रीयाणि छन्दोविधानानि वा न वा, परन्तु चपल-बालका इव असंयमितानि न भवन्ति। आम्; यदा बनऽ ना नरेन्वर देव कहरिया, वउरा घाटे चहुँपाइ (नरेन्दर महोदय ! भारवाहको भव। ‘दउरा’ इति वंशनिर्मितं फलादि संग्रहपात्रं शिरसि धृत्वा यस्मिन् घट्टे सूर्यषष्ठीव्रतम् आचरणीयं तत्र नयेति)। अस्मिन् गीतांशे नाम्नः परिवर्तनं कुर्वन्- बनऽ ना बँसरोपन बबुआ कहरिया, बनऽ ना राम खेलावन देव कहरिया इत्थमपि प्रयोगो भवति, तु समानो ध्वनिः न भवति, बाधितो भवति, रागभंगो भवति। तथापि लोकगीते न निषिद्धमिदम्। प्रायेण इत्थं भवत्येव । मन्ये; विवशतयैव शास्त्रकारैः स्वीकृतमेतत् ।
वस्तुतः लोकगीतं कस्याश्चित् कुल्यायाः प्रणाल्याः वा न प्रवाहः, अपितु निर्झरस्य नद्याः वा स्वतन्त्रः प्रवाह एव । अनेनैव कारणेन अनिबद्धानि गीतान्यपि समादृत्य स्थानं दत्त्वा आचार्यैः कथितम् अनिबद्धं भवेद् गीतं वर्णादि-नियमं विना। अर्थाद् एतादृशं गीतमपि गीतमेव न अगीतमिति। रसोऽस्ति, आलापोऽपि अस्त्येव तु मानमेव नु तुदति तदपि गायकैः स्वगायन- कलाभिः प्रायेण पूर्यते ।
अस्तु; भोजपुरी लोकगीतेषु नाना भावप्रवणानि जीवनस्य प्रत्येकं क्षेत्रस्य विषय-वस्तूनां संयोज्य आस्वाद्यानि लोकगीतानि प्रसृतानि, देशेषु | विदेशेष्वपि । तेषां छठगीतान्यपि । प्रायेण छठगीतानां भावभूम्यां षष्ठीदेव्याः आदित्यदेवस्य च दान द्योतन- दीपनानां प्रशस्तिरेव । देवो दानाद्वा घोतनाद्वा दीपनाया (निरुक्तम् – ७.१५) इत्यनेन एतयोः देवत्वं विभाति। गायने क्वचिद् व्रतमहिमा, तु क्वचित् करुण-प्रार्थनापि विद्यते ।
एकस्मिन् गीते कोऽपि अज्ञः पथिकः स्कन्धवाहनी ( बहंगी इति) वहतः पारिवारिकैः सदस्यैः सह लोकान् कुत्रचिद् गच्छतः दृष्ट्वा साश्चर्य पृच्छति कमपि
काँचहि बाँस के बहँगिया बहँगी लचकत जाए। बाट में पुछेला बटोहिया ई बहंगी केकरा के जाई।
तेत आहर हवे रे बटेशिया ई की छठ मइया के जाई। हमरा जे बाड़ी छठिय मइया ई दल उनुके के जाई।।

आशयोऽयं यद् यदा पथिकः पृच्छति तदा जलाशयं गच्छत्सु आबाल स्त्री-पुरुषेषु कोऽपि तं सरोषम् उत्तरयन् कथयति यत् त्वं मूर्खोऽसि ! अन्योऽसि !! न जानासि यद् अनया वेणुशिक्यया सह (बहँगी के साथ) समूहोऽयं षष्ठीमातरम् उपगच्छति । अस्माकम् एका माता, षष्ठीमाता। तां निकषा एव वयं सर्वे व्रजामः ।
छठव्रतं सर्वाधिक स्वच्छतया पवित्रतया च क्रियते । अस्मिन् मुख्यं पक्वान्नम् ‘अघरौटा’ इति । गोधूमस्य पिष्टान्ने घृतं गुडं च समिक्ष्य आकार-साधने साधयित्वा सर्वांग-सुन्दरं यन्निर्मीयते शुद्धघृते पच्यते तद् अघरौटा इति कथ्यते यत् स्थूल-रोटिकावत् घृते पच्यते, तत् ठेकुआ इति कथ्यते। अनयोः (अघरौटा- ठेकुआ) इत्ययोः पक्वान्नयोः ‘अघरौटा’ इत्याख्यस्य निर्माणे षष्ठीव्रते दीयमानेन सूर्यायेण सह संयोगः प्रतिभाति। सम्भवतः अर्ध्याय वटी इत्येव अस्य मूलम्। तुः कथनमिदं यद् गोधूम-परिष्कारतः पक्वान्न-निर्माणं यावद् अथवा अनुष्ठानस्य सर्वस्मिन् विषये कुप्रभावाद् भयेन श्रद्धया च पवित्रता विशेषेण पाल्यते ।
अस्मिन् प्रसंगे एकस्मिन् गीते छठ (षष्ठी) माता कुपिता दृश्यते । कारणं यद् छठघट्टे (यस्मिन् जलाशये अर्घ्यदानं भवति, तस्य तटे) तृणानि प्रसृतानि लूताः निवसन्ति च। तां दयार्द्राम् आत्मनः मातृवद् मृदुलां षष्ठीं विहस्य वदति भक्तः आराधकः क्रोषं मा कुरु मा कुरु। समग्र घट्ट मार्जयिष्यामि, विलिप्य चन्दनेन सुगन्धितं च करिष्यामि । तदीयं गीतम् आस्वाद्यम्
कोपि-कोपि बोलेली छठिय मइया, सुनऽ ए सेवक लोगो मोरे घाटे घसिया उपणि गइली, मकड़ी बसेड़ लेली।
हँस-हँस बोलेलें कवन देव, सुने हे छठिय मइया हम राउर घसिया छिलाई देवो, चनन पड़ोरि देवो।

एकस्मिन् गीते फलितं कटलीफलं शुकेन उच्छिष्टीकृतम्। इदं वीक्ष्य पत्नी शुकोपरि क्रुद्धा जाता। कारणं यत् फलितं दृष्ट्वा छठपूजार्थं मनसि संचितवती । सा पतिम् अकथयत् यत् शुकं धनुषा मारय। तेन तत्कृतम्। कीरो हतः । शुकी दृष्ट्वा पतिवियोगेन करुण क्रन्दनेन पतिप्राणस्य भिक्षां सूर्य याचते । सवंशोऽयम् केरवा जे फरेला घवव से सुग्गा वेलस जुठियाई सुगवा के मारना धनुख से सुग्गा गिरे मुरुझाई। सुगनी जे रोवेली नियोग से आदित होई ना सहाया बहूनि विविध मनोरम- रागेषु निबद्धानि प्राचीनानि गीतानि सन्ति। एतेषु शोषः अपेक्षितः । एकस्मिन् गीते छठमातरं काः काः किं किं याचन्ते गीतांशं दृश्यन्ताम् बुढ़िया माँगे नाती तरुनिया माँगे बेटा बिटिया जे माँगेले भाई रे भतीजा।
अनेन प्रकारेणैव गीते भक्त्याः हठो वर्णितः। तस्मिन् एका वन्ध्या नारी सूर्यस्य मार्गम् अवरुध्य सन्तानार्थ स्थिता दृश्यते। भक्तिविवशो भगवान् आगामि-कार्तिके मासे सन्तान लाभस्य वरं ददाति। तदन्त्यांशः दर्शनीयः ए असों के कतिकवा ए तिरिया। घरवा चलि जाई । ए अगिला कतिकवा ए तिरिया तोरा बेटा होइ जाई।
साहित्यं देश-काल-समाजानां दर्पणः एव। तत् सर्वं दर्शयति । वस्तूनां महार्षता अद्यापि आकाशं स्पर्शयन्ती दृश्यते। एकस्मिन् छठगीते भ्रातृभगिन्योः संवादे भ्रातुः वस्तुक्रये असमर्थता, तु भगिन्याः छठव्रतस्य अनुष्ठाने श्रद्धा दृश्यते । भ्राता व्रतं निषिध्यति । भगिनी हठं करोति । पश्यन्तां तद्गीतम् पटना से निबुआ बेसाहऽ मोरे भइया! हम करब छठि के बरत मोरे भइया! पटना में निथुआ महँग भइले बहिना! छोड़ऽ तुहुँ छठिया के बरत मोरे बहिना। बड़ा संकटवा से कइली छठि के बरत मोरे भइया नाहीं छोड़ब छठि के बरत मोरे भइया!
वस्तुतः, छठव्रतं लोकास्थायाः महान् व्रतोत्सवः । अनेन अयं कर्मकाण्डात् किंचिद् दूरं गत्वा भावप्रधानः श्रद्धाप्रधान एव ।