सिंहः शशः च ( पञ्चतन्त्र कथा )

यस्य बुद्धिर्बलं तस्य निर्बुद्धेस्तु कुतो बलम् ? ।
वने सिंहो मदोन्मत्तः शशकेन निपातितः ॥

कस्मिंश्चिद्वने भासुरको नाम सिंहः प्रतिवसति स्म । अथासौ वीर्यातिरेकान्नित्यमेवानेकान् मृगशशकादीन् व्यापादयन्नोपरराम। अथान्वेद्यस्तद्वनजाः सर्वे सारङ्गवराहमहिषशशकादयो मिलित्वा तमभ्युपेत्य प्रोचुः – स्वामिन् किमनेन सकलमृगवधेन नित्यमेव , यतस्तवैकेनापि मृगेण तृप्तिर्भवति , तक्रियतामस्माभिः सह समयधर्मः । अध्यप्रभृति तवात्रोपविष्टस्य जातिक्रमेण प्रतिदिनमेको मृगो भक्षणार्थं समेप्यति । एवं कृते तव तावत्प्राणयात्रा क्लेशं विनापि भविष्यति , अस्माकं च पुनः सर्वोच्छेदनं न स्यात् । तदेष राजधर्मोऽनुष्ठीयताम् ।
अथ तेषां तद्वचनमाकर्ण्य भासुरक आह ” अहो सत्यमभिहितम भवाद्भिः । करं यदि ममोपविष्टस्यात्र नित्यमेव नैकेको मृगः समागमिष्यति तन्नूनं सर्वानपि भक्षयिष्यामि ” ।
अथ ते तथेति प्रतिज्ञाय निवृतिभाजस्त्रव वने निर्भयाः पर्यटन्ति ।
एकश्च प्रतिदिनं जातिक्रमेण वृद्धो वा , वैराग्ययुक्तो वा , शोकग्रस्तो वा , पुत्रकलत्रनाशभीतो वा तेषां नध्यात्तस्य भोजनार्थ मध्याह्नसमये उपतिष्ठति ।
अथ कदाचिज्जातिक्रमाच्छशकस्यावसरः समायातः । स समस्तमृगप्रेरितोऽनिच्छन्नपि मन्दं मन्दं गत्वा तस्य वधोपायं चिन्तयन् वेलातिक्रमं कृत्वा व्याकुलितहृदयो यावद्गच्छति तावन्मार्गे गच्छता कूपः संदृष्टः । यावत्कूपोपरि याति तावत्कूपमध्ये आत्मनः प्रतिबिम्बं ददर्श । दृष्ट्वा च तेन हृदयेन चिन्तितम् यद् भव्य उपायोऽस्ति । अहं भासुरकं प्रकोप्य स्वबुद्धयाSस्मिन्कूपे पातयिष्यामि ।
अथासौ दिनशेषे भासुरकसमीपं प्राप्तः । सिंहोsपि वेलातिक्रमेण क्षुत्क्षामकण्ठः ।

कोपाविष्टः सक्कणी परिलिहन्नचिन्तयत् -अहो प्रातराहाराय निःसत्त्वं वनं मया कर्तव्यम् । एवं चिन्तयतस्तस्य शशको मन्दं मन्दं गत्वा प्रणम्य तस्याऽग्रे स्थितः ।
अथ तं लतात्मा भासुरको भर्त्यन्नाह ” रे शशकाधम ! एकस्ताव्रत्त्व लघुः प्राप्तः अपरतो वेलातिक्रमेण
तदस्मादपराधात् त्वां निपात्य , प्रातः सकलान्यपि मृगकुलान्युच्छेदयिष्यामि । “
अथ शशकः सविनयं प्रोवाच स्वामिन् ! नापराधो मम , न चान्यमृगाणाम् । तच्छ्रयतां कारणम् । ” सिंह आ ” सत्वरं निवेदय , यावन्मम् दंष्टान्तर्गतो न भवान्भवति ” इति ।
शशक आह ” स्वामिन् समस्तमृगैरद्य जातिक्रमेण मम लघुतरस्य प्रस्तावं विज्ञाय , ततोऽहं पञ्चशशकैः समं प्रेषितः ।
महता केनचिदपरेण सिंहेन ततमाश्चाहमागच्छन्नन्तराले क्षितिविवरान्निर्गत्याभिहितः रे ! कः प्रस्थिता यूयम् अभीष्टदेवतां स्मरत ।

  • ततो मयाभिहितम् ” वयं स्वामिनो भासुरकसिंहस्य सकाशमाहारार्थ समयधर्मेण गच्छामः ” ।
    ततस्तेनाभिहितम् – ” यद्येवं तवं मदीयमेतद्वनम् । मया सह समयधर्मेण समस्तैरपि श्वापदैर्वर्तितव्यम् । चौररूपी स भासुरकः । अथ यदि सोऽत्र राजा ततो विश्वासस्थाने चतुरः शशकानत्र धृत्वा तमाहूय द्रुततरमागच , येन यः कश्चिदावयोर्मध्यापराक्रमेण राजा भविष्यति ” इति ।
    ततोऽहं तेनादिष्टः स्वामिसकाशमभयागतः । ऐतद्वलाव्यतिक्रमकारणम् । तदत्र स्वामी प्रमाणम् । तच्छ्रुत्वा भासुरक आह ” भद्र ! यद्येवं , तत्सत्वरं दर्शय मे तं चौरसिंहं , येनाहं मृगकोपं तस्योपरि क्षिप्त्वा स्वस्थो भवामि । ” उक्तञ्च
    भूमिमित्रं हिरण्यम च विग्रहस्य फलत्रयम् । नास्त्येकमपि यद्येषां न त कुर्यात्छञ्चन ॥
    यत्र न स्यात्फलं भूरि यत्र न स्यात्पराभवः । म तत्र मतिमान्युद्धं समुत्पाद्य समाचरेत् ॥
    शशक आह – ” स्वामिन् सत्यमिदम् । सवभूमिहितोः परिभवाच्च युद्धयन्ते क्षत्क्षियाः । परं स दुर्गाश्रयः , दुर्गान्निष्क्रम्य वयंतेन विषकम्भिताः । तो दुर्गस्थो दुःसाध्यो भवति रिपुः । “
    भासुरक आह ” भोः ! किं तवानेन व्यापारेण ? दर्शय मे तं दुर्गस्थमपि । ” शशक आह ” यद्येवं तर्ह्यागच्छतु स्वामी । ” एवमुक्त्वाऽग्रे व्यवस्थितः । ततश्च तेना SS गच्छता यः कूपो दृष्टोऽभूत्तमेव कूपमासाद्य भासुरकमाह ” स्वामिन् ! कस्ते प्रतापं सोढुं समर्थः । त्वां दृष्ट्वा दूरतोऽपि चौरसिंहः प्रविष्टः स्वं दुर्गम् ।
    तदागच्छ , येन दर्शयामि ” इति भासुरक आह – ” दर्शय मे दुर्गम् ” तदनु दशिस्तेन कूपः । ततः सोऽपि मूर्खः सिंहः कूपमध्ये आत्मप्रतिबिम्बं जलमध्यगतं दृष्ट्वा सिंहनादं मुमोच । ततः प्रतिशब्देन कूपमध्याद् द्विगुणतरो नादः समुत्थितः । अथ तेन शत्रुं मत्वातमानं तस्योपरि प्रक्षिप्य प्राणाः परित्यक्ताः ।
    शशको s पि हृटमनाः सर्वमृगानानन्द्य तैः प्रशस्यमानो यथासुखं तत्र वने निवसति स्म ।