संयुक्त राष्ट्र जलवायु सम्मेलनम् मिस्र देशस्य शर्म- अल-शेख इति क्षेत्रे समारभत। सम्मेलनमिदं नवम्बर मासस्य अष्टादश- दिनांकं यावत् प्रचलिष्यति । उपक्रमेऽस्मिन् भारतीयेन मन्त्रिणा भूपेन्द्र यादवेन भारतीय शिविरात्मकस्य कुटीरस्य उद्धटानमपि कृतम्। अस्मिन् सम्मेलने विंशत्यधिक-एकशत-देशानां प्रतिनिधयः प्रतिभागित्वं कुर्वन्ति। मिस्रदेशस्य विदेशमन्त्रिणा समेह-शौकरी-इत्यनेन उद्घाटन-भाषणे उक्तं यत् विश्वनेतारः जलवायु परिवर्तन इति विषये निर्णयं स्वीकुर्वन्तः एतत् न विस्मरिष्यन्ति यत् रूशदेशीयेन सैन्याभियानेन यूक्रेनदेशे खाद्योर्जयोः संकटं समुत्पादितमस्ति।











