मल्लिकार्जुन खड़गे कांग्रेस्दलस्य अध्यक्षत्वेन कार्यभारं सम्भालितवान् । गतेषु चतुर्विंशतिवर्षेषु श्रीखरगे प्रथमः तथाभूतः कांग्रेस अध्यक्षः अस्ति यस्य नेहरूगांधी परिवारेण समं न कश्चन संबंधः अस्ति। अवधेयं यत् गत मासे नवदशे दिनांके आयोजिते अध्यक्ष पदनिर्वाचने दलस्य सांसदः शशि थरूरः तेन पराजितः । श्री मल्लिकार्जुन खड़गे इत्यस्य राज्याभिषेकार्थं काङ्ग्रेसमुख्यालये आयोजिते कार्यक्रमे दलस्य दीर्घकालीनाध्यक्षा सोनियागान्धी, राहुलगान्धी अपि च अनेके दिग्गजाः उपस्थिताः आसन्। काङ्ग्रेसस्य कमानं औपचारिकरूपेण खड़गे इत्यस्मै समर्प्य श्रीमति सोनिया गान्धी कार्यक्रमं सम्बोधयन्ती दलस्य समक्षं आव्हानानां विषये चर्चां कृतवती, नूतन अध्यक्षं च अभिनन्दितवती। सोनिया गान्धी कथयति यत् मल्लिकार्जुन खड़गे इत्यस्य अध्यक्षत्वेन सा निश्चिन्तः अभवत्। श्रीमती सोनिया गान्धी काङ्ग्रेसकार्यकर्तृणां सहकार्यस्य समर्थनस्य च धन्यवादं दत्तवती। सः नेहरू-गान्धी-परिवारात् बहिः प्रथमः व्यक्तिः अभवत् यः २४ वर्षेभ्यः परं दलस्य अध्यक्षः अभवत् । सः १६ फेब्रुवरी २०२१ तः १ अक्टोबर २०२२ पर्यन्तं राज्यसभायां विपक्षस्य नेता अपि आसीत् । भारतसर्वकारे पूर्वरेलमन्त्री श्रमरोजगारमन्त्री च आसीत् ।











