फीफा विश्वकप २०२२ इत्यस्य उद्घाटनसमारोहः २० नवम्बर् दिनाङ्के कतारदेशस्य अलखोरनगरस्य अल बायट्-क्रीडाङ्गणे आरब्धः

अस्य वर्षस्य फीफा विश्वचषक-प्रीतस्पर्धायाः उद्घाटने भारतस्य प्रतिनिधित्वं कर्तुं उपराष्ट्रपतिः जगदीप धनखड़: कतरस्य द्विदिवसीय यात्रायां नवम्बरमासस्य विंशतितमे मध्याहने दोहां प्राप्तवान्। विदेश- मन्त्रालयेनोक्तं यत् भारत-कतरयोर्मध्ये व्यापारः, सुरक्षा, रक्षा, स्वास्थ्यं, शिक्षां च समेत्य अन्य क्षेत्रेष्वपि बहुपक्षीयसहमत्या सहैव सुदृढसम्बन्धाः वर्तन्ते। आगामिवर्षे द्वयोः देशयोः पूर्ण राजनयिक सम्बन्ध स्थापनाया: पंचाशत् वर्षा: पूरयिष्यन्ते। स्व यात्रावधौ उपराष्ट्रपतिः भारतीय समुदायस्य सदस्यैः साकं सम्वादमपि करिष्यति ।
प्रधानमन्त्री नरेन्द्रमोदी गतमासे नवविंशति दिनांके अमीर कतर, शेख तमीम बिन हमद अल- सानी इत्येताभ्यां सह वार्ता कृतवान् आसीत्। सहैव हि फीफा विश्वचषक-प्रतिस्पर्धायाः साफल्यै शुभाकामना: अपि दत्तवानासीत्।