काशीतमिलमेलने पीएम भाषाबाधां भङ्गयितुं आह्वानं करोति

प्रधानमन्त्री नरेन्द्रमोदी नवम्बर मासस्य नवदश दिनाङ्के काश्यां मासं यावत् प्रचाल्यमानस्य तमिलसंगमम् इत्यस्य उद्घाटनम् अकरोत् । अवसरेऽमिन् भाषमाणाः प्रधानमन्त्री अवोचत् यत् जनाः भाषिकीं भिन्नतां त्यक्त्वा सांवेदनिकीम् एकतां भजेयुः। सः उक्तवान् यत् अस्मददेशस्य एतिह्यं संगमैः भरितम् अस्ति । कुत्रचित् नदीनां संगमः अस्ति। सः अग्रे उक्तवान् यत् काश्यां परिपाल्यमानं तमिल संगमामिमं अस्मत् संगम एतिह्यमेव अग्रे नयति। प्रधानमन्त्री अवोचत् यत् अस्य कार्यक्रमस्य आयोजनावसरः स्वतन्त्रतायाः अमृतमहोत्सवकालः अस्ति, यत्र च राष्ट्रिय सद्भावनायै मञ्चः प्रदीयते । उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः, राज्यपालः आनन्दीबेन पटेलः, केन्द्रीयशिक्षामन्त्री धर्मेन्द्रप्रधानः, केन्द्रीय सूचनाप्रसारण राज्यमन्त्री एल. मुरुगनादयः प्रमुखनेतारः सम्मेलनेऽस्मिन् समुपस्थिताः आसन्। यत्र तमिलनाडुतः समागताः अधिनामानः अपि आसन्। संगमम इत्यस्य शुभारम्भः अस्य नवम्बर मासस्य सप्तदशदिनांकतः, यत्र प्रायशः द्विशतं प्रतिभागिनः तमिलनाडुतः यात्रारम्भं कृत्वा काशीं सम्प्राप्ताः, तत्र रेलस्थानके तेषां जयघोषादि पुरस्सर अभवत्। आयोजनं संगममस्य स्वतन्त्रतायाः स्वागतम् स्वर्णमहोत्सवानन्तर्गतं भारतप्रशासनेन विधीयते। यस्य मूलभावना ‘एकभारतम् श्रेष्ठभारतम्’ इत्यनुसारि अस्ति । अस्य आयोजनस्य मुख्योद्देश्यम् भारतस्य द्वयोः कोणयोः भाष-वाणिज्यिक-सांस्कृतिक- दार्शनिकादीनां क्षेत्राणां पारस्परिकमोलनमस्ति।