गुजरातराज्ये विधानसभानिर्वाचनस्य प्रथम चरणाय प्रचाराभियानार्थम् पीएम मोदी सोमनाथमन्दिरं गतवान्

गुजरातराज्ये विधानसभानिर्वाचनस्य प्रथम चरणाय प्रचाराभियानं द्रुततां भजते, प्रधानमन्त्री नरेन्द्रमोदी वेरावल-धोराजी इत्येतयोः क्षेत्रयोः नैर्वाचनिकसभां सम्बोधितवान्। अवसरेऽस्मिन् सः उक्तवान् यत् देशस्य पंचविंशतिवर्षाणां स्वर्णिम भविष्यस्य निर्धारणाय प्रचालकद्वययुतं प्रशासनं परमावश्यकमस्ति । वेरावलसभायां सः उक्तवान् यत् प्रशासनं सामान्यजनानां कृषकाणां यूनां, महिलानां, मत्स्यपालकानां च सुदृढतायै नीतयः आनयति । श्रीमता मोदिना प्रतिगृहं यावत् नलकूपस्य जलप्रापणम्, आयुष्मान-भारतयोजना आदीनां समुल्लेखो विहितः । तेन उक्तं यत् भाजपेतिदलेन सर्वदैव देशस्य, जनसामान्यानां च विकासाय कार्यं कृतम् ।
राजकोटजनपदस्य धोराजी इतिस्थले नैर्वाचनिकसभायां श्रीमोदिना निगदितं यत् गुजरातराज्यम् सम्प्रति सर्वेषु क्षेत्रेषु उन्नतिम् आप्नोति, अवसरः अस्ति यत् अग्रिम पंचविंशतिवर्षेभ्यः राज्यस्य समृद्धतायै अग्रे नयनस्य। श्रीमोदी उक्तवान् यत् दशकद्वयं प्राक् सौराष्ट्र-क्षेत्रे जलसंकटं गंभीरतमं भवति स्म, परं भाजपेति प्रशासनस्य प्रयाससातत्येन नर्मदायाः जलं सौराष्ट्रक्षेत्रं प्राप्तम्, येन क्षेत्रे जलसंकटं समाप्तम् अभवत्। प्रधानमन्त्रिणा सौराष्ट्रस्य समृद्धौ सुजलाम्, सुफलाम् योजनायाः भूमिकां सम्मुखीकृतम्। गुजरातयात्रायाः द्वितीये दिवसे प्रधानमन्त्री वरिष्ठ भाजपा नेता च नरेन्द्रमोदी अद्य सौराष्ट्र क्षेत्रे चतस्रः जनसभाः सम्बोधयिष्यति। राज्ये तीव्रनिर्वाचनप्रचारस्य नेतृत्वं कुर्वन् श्रोमोदी वापीनगरे एकं मार्गप्रदर्शनं कृतवान्। वलसाडनगरे एकां जनसभा सम्बोधयन् श्रीमोदी जनान् अधिकतमसंख्यायां मतदानं कर्तुं आग्रहं कृतवान्। तेनोक्तं यत् मतदानशक्त्या एव देशस्य विकासः जातः । प्रथमचरणस्य मतदानाय सर्वैः राजनीतिकदलैः नैर्वाचनिकप्रचारः तीव्रीकृतः। दिसम्बरमासस्य प्रथमे दिवसे विधानसभानिर्वाचनं भविष्यति। अस्य निर्वाचनस्य कृते आहत्य अष्टाशीत्यधिक-सप्तशत- प्रत्याशिनः स्पर्धाङ्गणे सन्ति। राज्ये विधानसभा निर्वाचनस्य प्रथमचरणे एकोननवति- आसन्देभ्यः दिसम्बरमासस्य प्रथमदिनांके भविष्यति। द्वितीय चरणे च त्रिनवति क्षेत्रेभ्यः मतदानं दिसम्बर मासस्य पंचमे दिनांके भविष्यति। मतगणना च हिमाचल-प्रदेशेनैव सह अष्टमे दिनांके सम्पत्स्यन्ते।