उत्तराखण्ड राज्य स्थापना दिवस

उत्तराखण्डेन स्वकीयः द्वाविंशतितमः स्थापनदिवसः मान्यते । राज्यस्तरीय-समारोहः देहरादूनस्य पुलिस-लाइन इत्यत्र आयोजितः राज्यपालः गुरमीतसिंहः पदयात्रायाः समीक्षाम् कृतवान् मुख्यमन्त्री पुष्कर सिंह धामी प्रदेशस्य हुतात्मभ्यः आंदोलनकारिभ्यः च प्रणताञ्जलिं समर्पितवान् । मुख्यमंत्री प्रोक्तवान् यत् राज्य-सर्वकारः पंञ्चविंशत्युत्तर- द्विसहस्रतमाब्दं यावत् उत्तराखण्डं प्रत्येकक्षेत्रे अग्रणी भूमिकां स्थापितुं कृतसंकल्पः अस्ति राष्ट्रपति द्रौपदीमुर्मुवर्या, प्रधानमंत्री नरेंद्रमोदी, गृहमंत्री अमितशाहः, राज्यपालः गुरमीतसिंहः, विधानसभाध्यक्षः रितुखंडूडी मुख्यमंत्री पुष्कर-सिंहधामी च प्रदेशवासिभ्यः शुभकामनाः प्रदतवन्तः ।
बुधवासरे उत्तराखण्डराज्यस्थापनदिने भाजपा-पक्षेण सर्वेषु २५२ मण्डलेषु संगोष्ठी आयोजिता । अस्मिन् काले राज्य-आन्दोलने कारागारं गतानां आन्दोलनकारिणां शहीदानां च बन्धुजनानाम् सम्मानः कृतः । दलस्य मुख्यालयं प्राप्य मुख्यमन्त्री पुष्करसिंहधामी इत्यनेन प्रदर्शनस्य उद्घाटनं कृतम् ।