एकस्मिन् ग्रामे धनवान् वैश्यः कश्चन आसीत्। तस्य रमा उमा इति च द्वे भार्ये आस्ताम्। तयोः मध्ये उमायाः एकः शिशुः आसीत्। रमायाः तु न आसीत्।
कदाचित् सः वैश्यः मृतः। तस्य प्रभूतं धनं पुत्रवती उमा एव प्राप्स्यति इति ज्ञात्वा रमा दुःखिता अभवत्।
ततः सा रमा अचिन्तयत्, अहम् उमायाः शिशुं चोरयिष्यामि। यदि यः कोऽपि प्रक्ष्यति तर्हि अयं मम शिशुः इति वदिष्यामि, कथञ्चित् निरूपयिष्यामि च इति।
तेन सर्वं धनं मम एव भविष्यति इति । एवं विचिन्त्य सा शिशुम् अचोरयत्। ततः खिन्ना उमा न्यायालयम् अगच्छत्।
न्यायाधिपः सर्वं वृत्तान्तं श्रुत्वा रमा एव असत्यं वदति इति अजानात्। परन्तु सा रमा स्वस्य दोषं स्वयं न अङ्गीकरिष्यति इति चिन्तयन् न्यायाधिपः एकम् उपायम् अचिन्तयत्।
उपायानुसारं सः रमाम् उमां च दृष्ट्वा एवम् अवदत् हे! सोदर्यौ यदि अयम् उभयोः शिशुः तर्हि अहम् एनं शिशुं द्वेधा छित्वा युवयोः दास्यामि इति।
तत् श्रुत्वा वास्तविकमाता रमा व्याकुला भूत्वा अवदत् स्वामिन्! सः उमायाः शिशुः एव । न मदीयः शिशुः ।
कृपया शिशुं मा मारयन्तु। धनार्थम् असत्यम् अवदम् इति। ततः सर्वे अपि उमा एव शिशोः वास्तविकमाता इति अवागच्छन्। न्यायाधिपः समानतया धनं विभज्य ताभ्याम् अयच्छत्।











