अयि ! सुरभारतीसमुपासकाः ! केन्द्रीयसंस्कृतविश्वविद्यालयस्य लखनऊपरिसरे 16/12/2022 तमे दिनाङ्के शिक्षाशास्त्रविद्याशाखायां लोकभाषाप्रचारसमितिः एवं केन्द्रीयसंस्कृतविश्वविद्यालयस्थलखनऊपरिसरः इत्यनयोः मिलितानुकूल्येन संस्कृतसम्भाषणशिविरस्य सम्पूर्त्तिसमारोह: अनुष्ठितः। समारोहेऽस्मिन् मुख्यातिथित्वेन लखनऊस्थ नवयुगकन्यामहाविद्यालयस्य संस्कृतविभागाध्यक्षाः तथा च लोकभाषाप्रचारसमितेः उत्तरप्रदेशशाखायाः सचीवपदभाजाः प्रो.रीता तिवारीमहोदयाः समुपस्थिताः आसन् । सम्मानितातिथित्वेन शिक्षाशास्त्रविद्याशाखायाः अध्यक्षाः प्रो. अवनीश अग्रवालमहोदयाः तथा च विशिष्टातिथित्वेन लखनऊविश्वविद्यालयस्य संस्कृतविभागस्य सहायकाचार्याः डॉ अशोक कुमारशतपथीमहोदयाः स्वस्वविचारमुपस्थापितवन्तः ।
समारोहस्यास्य अध्यक्षता शिक्षाशास्त्रविद्याशाखायाः सङ्कायाध्यक्षाः प्रो. लोकमान्य मिश्रमहोदयाः कृतवन्तः । संस्कृतसम्भाषणशिविरस्य सञ्चालकाः विद्याशाखायाः सहायकाचार्याः डॉ.रुद्रनारायणनरसिंहमिश्रमहोदयाः अपि उपस्थिताः आसन्। शिक्षाशास्त्रविद्याशाखायाः अन्ये आचार्याः, प्रॊ.बच्चाभारतीमहोदयाः,डॉ. गणेशशङ्करविद्यार्थी महोदयाः, डॉ.हरिओमशर्मामहोदयाश्च समारोहे उपस्थिताः आसन्। समारोहस्यास्य सम्पूर्णसञ्चालनं छात्राध्यापकैः कृतम्। अस्मिन् समारोहे शिक्षाशास्त्रविद्याशाखायाः सर्वे छात्राध्यापकाः छात्राध्यापिकाश्च उपस्थिताः आसन् । समारोहे पञ्चलघुनाटकानि यथा – उपस्थिता बुद्धिः आवश्यकी, पर्यावरणसंरक्षणं जीवनरक्षणम्, सांस्कृतिककार्यक्रमे मञ्चसञ्चालनम् , कस्यदेशस्य, वर्तमानसमये संस्कृतभाषायाः स्थित्यादिनां मञ्चनं जातम् ।











