केन्द्रीयसंस्कृतविश्वविद्यालयः,नवदेहली एवञ्च गोगटे-जोगळेकर-महाविद्यालयः,रत्नागिरी इत्यनयोः संयुक्ततत्त्वावधानेन सञ्चालितस्य अनौपचारिकसंस्कृतशिक्षणकेन्द्रस्य समुद्घाटनसमारोहः महता वैभवेन समायोजितः

वार्ताहरः आचार्यः विशालप्रसादभट्टः

| अस्माभिः सफलताद्वारा सन्तुष्टिं लब्ध्वा स्वसमीपस्थान् जनान्प्रति परोपकारी भवितव्यः – कार्यक्रममुख्यातिथिः श्रीमान् रामराजे चांदणेवर्यः विशेषकारागृहाधीक्षकः, रत्नागिरिः

| संस्कृतभाषायां विशिष्टं माधुर्यं वर्तते – कार्यक्रमाध्यक्षः प्र. प्राचार्यः डा० प्रफुल्लत्तकुलकर्णी |

अद्य १४.१२.२०२२ द्वाविंशत्युत्तरद्विसहस्रतमाब्दे दिसम्बरमासस्य चतुर्दशे दिनाङ्के बुधवासरे केन्द्रीयसंस्कृतविश्वविद्यालयः, नवदेहली, गोगटे-जोगळेकर- महाविद्यालयः, रत्नागिरी, महाराष्ट्रम् इत्यनयोश्च संयुक्ततत्त्वावधानेन सञ्चालितस्य अनौपचारिकसंस्कृतशिक्षणकेन्द्रस्य समुद्घाटनसमारोहः महता वैभवेन सुसम्पनोsभवत्तत्रावसरेsस्मिन् कार्यक्रमस्यास्य मुख्यातिथित्वेन रत्नागिरेः विषेशकारागृहस्य अधीक्षकः मान्यः रामराजे चांदणेवर्यः समुपस्थितः। कार्यक्रमस्य अध्यक्षः गोगटे-जोगळेकर-महाविद्यालयस्य प्र. प्राचार्यः डा० प्रफुल्लदत्तः कुलकर्णी-महोदयः आसीत्। कार्यक्रमस्यास्य शुभारम्भः कार्यक्रमे समागतानां मान्यातिथीनां स्वागतं सुमधुरस्वरेण संस्कृतस्वागतगीतगायनेन केन्द्रस्य अध्येत्री सुश्रीः चिन्मयी अकरोत्। ततश्च अस्य कार्यक्रमस्य सूत्रसञ्चालकः श्रीमान् जयन्त अभ्यङ्करवर्यः अभ्यागतानाम् अतिथीनां परिचयपुरस्सरं वाचिकं स्वागतं कृतवान्। तदनन्तरं महाविद्यालयस्य प्राचार्यमहोदयेन मान्यस्य मुख्यातिथेः श्रीमतः रामराजे चांदणेवर्यस्य स्वागतं पुष्पगुच्छप्रदानेन नारिकेलफलदानेन तस्मै संस्कृतभारत्याः प्रकाशितानि पुस्कानि च समर्प्य कृतम्। पश्चाच्च प्राचार्यमहोदयेन नवदेहलीस्थस्य केन्द्रीयसंस्कृतविश्वविद्यालयस्य अनौपचारिकसंस्कृतशिक्षकस्य आचार्यस्य विशालप्रसादभट्टस्य स्वागतं तस्मै पुष्पगुच्छं प्रदाय विहितम्। केन्द्राधिकारिण्याः डा० कल्पना आठल्ये महोदयायाः स्वागतं केन्द्रशिक्षकः आचार्यः विशालप्रसादभट्टः तस्यै पुष्पं समर्प्य कृतवान्। तदनु प्रास्ताविकं भाषणं गोगटे-जोगळेकर-महाविद्यालयस्य संस्कृतविभागाध्यक्षा अपि चास्यनौपचारिकसंस्कृतशिक्षणकेन्द्रस्य केन्द्राधिकारिणी डा० कल्पना आठल्ये- महोदया अकरोत्। अनन्तरं केन्द्रशिक्षकः आचार्यः विशालप्रसादभट्टः स्वीयं मनोगतं प्रास्तुवन् नवदेहलीस्थस्य केन्द्रीयसंस्कृतविश्वविद्यालयस्य परिचयपुरस्सरं अनौपचारिकसंस्कृतशिक्षणकेन्द्रस्य महत्तां प्रतिपादयत्। स्वीयोद्बोधने तेन २०२२-२३ तमे सत्रे संस्कृतभाषाप्रमाणपत्रीयपाठ्यक्रमे संस्कृतभाषादक्षतापाठ्यक्रमे च प्रविष्टानाम् अध्येतॄणां सङ्ख्याविषये वर्गसञ्चानकालांशादिविषये च वृत्तं समुपस्थापितम्। तदनु तेन प्रोक्तं यत् नवदेहलीस्थस्य केन्द्रीयसंस्कृतविश्वविद्यालयस्य यशस्विनां कुलपतिनां प्रो० श्रीनिवासवरखेडी-वर्याणां कुशलनेतृत्वे तथा च मुक्तस्वाध्यायपीठस्य निदेशकाणां राष्ट्रियसंयोजकानां च कुशलमार्गदर्शने संयोजने च अखिलेsपि भारतवर्षे IIT, IIM, NIA, अभियान्त्रिकमहाविद्यालयेषु, आयुर्वेदिकमहाविद्यालयेषु सामाजिकसंस्थादिसु च सम्प्रति केन्द्रीयसंस्कृतविश्वविद्यालयस्य पञ्चसप्ततिः -अनौपचारिकसंस्कृतशिक्षकैः ७५ विंशत्यधिकशतं केन्द्राणि सञ्चाल्यन्ते। अनौपचारिकसंस्कृतशिक्षणकेन्द्रेषु प्रत्यक्षविधिना साक्षात् वस्तूनां प्रदर्शनेन, स्फोरकपत्राणि च प्रदर्श्य, संस्कृतगीतानाम् , कथानाम् ,सुभाषितानाम् , विविधक्रीडानां च माध्यमेन सरलतया संस्कृतभाषाशिक्षणं क्रियते। येन सर्वोपि जनः सहजतया संस्कृतेन सम्भाषणं कर्तुं शक्नोति।
रत्नागिरेः विशेषकारागृहाधीक्षक श्रीमान् रामराजे चांदाणे अनौपचारिकसंस्कृतशिक्षणकेन्द्रस्य समुद्घाटनावसरे प्राभाषत् यत् सत्याधारितस्वप्नानां सम्पूर्तये सर्वदा परिश्रमः कर्तव्यः। अस्माभिः सफलताद्वारा सन्तुष्टिं लब्ध्वा सहैव स्वसमीपस्थान्प्रति परोपकारी भवितव्यः।
मुख्यातिथिरूपेण रामराजे चांदणे अवदत् यदा वयं किमपि लक्ष्यं निर्धारयामः तदा तल्लक्ष्यप्राप्तये यानि आवश्यकानि साधनानि भवन्ति साध्योपलब्धतानन्तरं तानि साधनानि दूराणि भवन्ति।
कार्यक्रमस्यास्य अध्यक्षीयभाषणे महाविद्यालयीयः प्र.प्राचार्यः डॉ० प्रफुल्लदत्तः कुलकर्णी प्रोक्तवान् संस्कृतभाषायां एकं विशिष्टं माधुर्यं वर्तते, संस्कृतभाषायाः एकमपि वाक्यं यदा कर्णाभ्यां श्रूयते तद्वचनं वरदानमिव प्रतीयते, अतः ये विद्यार्थिनः इमां भाषां संरक्षयितुमस्याः भाषायाः अध्ययनं कुर्वन्तः सन्ति ते सर्वेपि विशिष्टत्वेन अभिनन्दनीयाः सन्ति। अन्तिमे प्रमाणवितरणकार्यक्रमस्य संयोजिका सुश्री स्नेहावर्या प्रगतसत्रीयान् अध्येतॄन् क्रमशः मञ्चमाह्वयत्। मुख्यातिमहोदयः प्रगतसत्रस्य अध्येतॄभ्यः उत्तीर्णतायाः प्रमाणपत्राणि प्रदत्तवान्। कार्यक्रमे आहत्य पञ्चाशताधिकाः जनाः समुपस्थिताः अभवन्। कार्यक्रमस्य सम्पूर्तिः शान्तिमत्रेणाभवत्।