सम्पूर्णे विश्वे जनाः त्रयोविंशत्यधिकद्विसहस्रतमवर्षस्य सोत्साहं सोल्लासञ्च स्वागतं कृतवन्तः।
आविश्वं जनाः त्रयोविंशत्यधिकद्विसहस्रतमवर्षस्य विस्फोटास्फोटनेन विविधविचित्रप्रकाशेन च स्वागतं कृतवन्तः, प्रशांतराष्ट्रं किरीबाती इत्यनेन सर्वप्रथमं नववर्षस्य स्वागतं कृतं जनेभ्यं वर्धापनं च प्रदत्तम् ततः परं न्यूजीलैण्डदेशेन नववर्षस्य स्वागतं कृतम्, आभारतम् जनाः आङ्ग्लनववर्षस्य स्वागतं नृत्यगानेन सोत्साहं हर्षोल्लासेन च अकुर्वन्, देहलीतः मुम्बयिपर्यन्तं चैन्नयितः कोलकातापर्यन्तञ्च जनाः प्रसन्नचिताः आसन्, प्रधानमन्त्रीनरेन्द्रमोदिना अपि नववर्षस्य वर्धापनानि शुभकामनाश्च देशवासिभ्यः प्रदत्ताः। ट्विटसन्देशमाध्यमेन प्रधानमन्त्रिणा प्रार्थितं यत् देशवासिनः सर्वे अपि जनाः प्रसन्नाः सुखिनः समृद्धाः साफल्यपूर्णाश्च सन्तु ।
अस्य वर्षस्य प्रथम दिवसे सम्पूर्ण अपि देशे नववर्षोत्सवः सोत्साहं सोल्लासं च आमान्यते। देशस्य विभिन्नेषु राज्येषु जनाः गत रात्रौ एकत्रीभूय नववर्षम् आचरितवन्तः ।-राष्ट्रपतिः द्रौपदी मुर्मूः उपराष्ट्रपतिः जगदीप- धनखड़ः च नववर्षम् अभिलक्ष्य जनान् अभिनन्दितवन्तौ । स्वसन्देशे राष्ट्रपतिः उक्तवती यत् नववर्ष समेषां जीवने सौख्यं नूतनाभिप्रेरणां नवोत्साहं च जनयेत्।
नववर्षे जायमानपरिवर्तनानि –
त्रयोविंशतितमे अस्मिन् वर्षे विभिन्नलघु-धनरक्षण योजनासु कुसीदमात्रायाः वर्धनं वित्तकोशैः कृतं वर्तते।, पंचवर्षेभ्यः राष्ट्रिय-धनसुरक्षायां कुसीदमात्रा सप्तप्रतिशतं कृतम्, पूर्वं पादोनसप्तप्रतिशतं कुसीदमात्रा आसीत्, तत्रैव वरिष्ठनागरिकां कृते कुसीदमात्रा अष्टप्रतिशतं कृतम्। अनेन सहैव वित्तीय-धनरक्षण-कोशार्थं इत्यस्य कृते नवीनपात्रतायाः अपि घोषणा कृता तत्र नवीनधनरक्षणकर्तॄणां कृते नवीनतया पात्रताप्रमाणपत्रं दातव्यं भविष्यति, नवीनीकरणमपि करणीयं भविष्यति।
राजस्वसंग्रहः-
दिसम्बरमासे द्वाविंशत्यधिकद्विसहस्रतमे वर्षे एकलक्ष- एकोनपंचाशत्सहस्रं रूप्यकाणि राजस्वविभागेन समर्जितानि सन्ति। वित्तमन्त्रालयेन संसूचितं यत् गतवर्षापेक्षया अस्मिन् वर्षे पंचदशप्रतिशतमधिकं राजस्वं समर्जितम् ।











