प्रधानमन्त्रिणः मोदिनः मातुः हीराबेन नित्यस्याः अन्तिमसंस्कारः अद्य प्रातः गान्धिनगरस्य मुक्तिधाम-श्मशानघट्टे अभवत्। हीराबेन ३० दिसंबर दिनाङ्के प्रातः अहमदाबादस्य एकस्मिन् चिकित्सालये निधनमुपगता। सा शतवर्षीया आसीत्। प्रधानमन्त्रिणा मोदिना तेषाम् कुटुम्बजनैः च तस्याः अन्तिमसंस्कारो विहितः । भावुके ट्वीट- सन्देशे प्रधानमन्त्रिणा कथितं यत् एका भव्यशताब्दी अधुना भगवत् सायुज्यं प्राप्तवती ।
स्वीय मात्रे श्रद्धांजलिं अर्पयता प्रधानमन्त्रिणा कथितं यत् मया स्वीयमातरि त्रिमूर्तेः उपस्थितिः अनुभूता। तपस्विनां यात्रायाः, निःस्वार्थ-कर्मयोगिनः मूल्यान् प्रति समर्पितजीवनस्य् प्रतीकत्वम् अस्ति। स्वीय मात्रा सह तस्याः शततमं जन्मदिवस संस्मरन् प्रधानमन्त्री उक्तवान् यत् तया सदैव बुद्धिमत्तापूर्ण कार्याय पवित्रजीवनाय च अहं प्रेरितः । राष्ट्रपति द्रौपदीमुर्मुः उपराष्ट्रपतिः जगदीपधनखडः प्रधानमन्त्रिणः मोदिनः मातुः निधने सर्वेषां दलानां नेतृभिः च शोकः प्रकटितः।











