श्रीगुरु गोविंद सिंह महाराज्यस्य षड्पञ्चाशत्याधिकत्रिशतंतमः प्रकाश-पर्वः नवविंशतितमेदिसंबर दिनाङ्के सम्पूर्णदेशे सश्रद्धं सोल्लासं च आमन्यते। प्रधानमन्त्री नरेन्द्रमोदी प्रकाश-पर्वस्य अवसरे गुरु-गोविंद-सिंह नत्वा मानवतां प्रति तेन कृतां सेवां च स्मरितवान्। ट्वीट-माध्यमेन श्रीमोदी अवदत् यत् तस्य अदम्यसाहसः अद्यापि जनान् प्रेरयति । बिहारे श्री गुरु गोविंद सिंहस्य प्रकाश पर्व तस्य जन्मस्थले साहिब-स्थित-गुरुद्वारे अर्ध-रात्रौ आयोजिष्यते। तख्त श्री हरिमन्दिर साहिब गुरुद्वारे- विशेष दीवान इति शब्द-कीर्तनस्य च आयोजनं क्रियते। देशस्य विदेशेस्य च लक्षाधिकाः सिख-भक्ताः पवित्रगुरुद्वारामध्ये भागं गृहन्ति। बिहारस्य राज्यपालः फागूचौहान: मुख्यमन्त्री नीतीशकुमारः च राज्यस्य सर्वान् सिक्खभक्तान् प्रति शुभकामनाः दत्तवन्तौ ।











