राष्ट्रपतिः मुर्मूः गूगलस्य मुख्यकार्यकारीं भारतीयप्रतिभायाः प्रज्ञायाः च प्रतीकं वर्णितवान्, भारते सार्वत्रिक-डिजिटल-साक्षरतायै कार्यं कर्तुं च आह्वानं कृतवती ।
राष्ट्रपतिः द्रौपदीमुर्मुवर्या देशे डिजिटलसाक्षरताविषये बलाघातम् अकरोत्। तया इदमपि संश्रावितं यत् विगतेषु दिनेषु गूगल इत्यस्य कार्यकारि अधिकारिणा भारतीयमूलस्य सुन्दरपिच्चयिवर्येण सह मेलनम् कृतम् आसीत्, तस्मिन् कालेऽपि तया डिजिटलसाक्षरता आवश्यकताविषये कथितं आसीत् यत् प्रत्येकमपि जनः जङ्गमदूरवाणीयन्त्रस्य प्रयोगं करोति, अपि च अन्तर्जालस्यापि प्रयोगं नैके जनाः कुर्वन्ति, पूर्वमित्थं न भवति स्म, एव साम्प्रतिके काले अन्तर्जालविषयकस्य ज्ञानस्य विस्तारस्यावश्यकता वर्तते, तया इदमपि कथितं यत् प्रौद्योगिक्याः जनानां कृते अपि कालोऽयम् आह्वानरूपमेवास्ति तै अनुदिनं प्रौद्योगिकीक्षेत्रे जायमानपरिष्काराणां विषये जागरूकैः भाव्यम्, राष्ट्रपतिः हैदराबादे जीनटयनम्मा-विज्ञान- प्रौद्योगिकीसंस्थानस्य पंचविंशतितमवार्षिकसमारोहावसरे एतान् विचारान् प्रस्तुतवती ।











