भारतस्य जी-विंशति-समूह-अध्यक्षतान्तर्गतं प्रथमं जी-विंशति-स्वास्थ्य कार्य-समूहस्य उपवेशनम केरलस्य तिरुवनंतपुरे जनवरी मासस्य १८ दिनाङ्के आरब्धम्। केन्द्रीयस्वास्थ्य-परिवार कल्याण राज्यमन्त्री डा.भारतीप्रवीणपवारः त्रिदिवसीय कार्यक्रमस्य उद्घाटनम् अकरोत् । अस्मिन् अवसरे सा अवदत् यत् महामारी—नीतिः अस्माकं स्वास्थ्य-नीतेः समुचितज्ञानं सर्वेषां स्यात्, यतः किंचिदपि स्वास्थ्यसंकटं अद्यत्वे परस्परसम्बद्धविश्वस्य बहुक्षेत्रीयप्रकृतेः कारणात् आर्थिकसंकटं प्रति नयति । सा अवदत् यत् भविष्यकालिक- स्वास्थ्य-संकटानि प्रत्यपि अस्माभिः जागरूकैः भाव्यम् अपि च ससशक्ततया अस्माकं प्रतिक्रिया स्यात, डा.पवारः अकथयत् यत् स्वास्थ्यस्य सर्वेषु क्षेत्रेषु अस्माकम् उत्कृष्टसज्जताः स्युः, यः कोविड्-१९ इत्येव अन्तिममहामारी न स्यात्, अग्रे अपि नैकानि आह्नानानि भवितुं शक्नुवन्ति, अस्मिन् अवसरे केन्द्रीयविदेशराज्यमन्त्री वी. मुरलीधरणः मुख्यभाषणे अवदत् यत् चिकित्सापद्धिषु नवाचारस्य आवश्यकता विद्यते, भारते च तद् जायते एव अपि च अस्माकं विशिष्टसंस्कतिरपि अत्र सहायिका वर्तते, अवधेयं यत् अस्मिन् त्रिदिवसीय-जी-विंशति-सम्मेलने मुख्यप्राथमिकतासु स्वास्थ्य आपात स्थितीनां नियन्त्रणं, सज्जता, प्रतिक्रियाः, सार्वभौमिकस्वास्वयं-सहायता-क्रार्यक्रमसज्जतायाः तथा च डिजिटलस्वास्थ्यसेवानां विषये चर्चा भवति।











