१६५० तमे सृष्टीये वर्षे जनवरी मासस्य २६ तारिकायाम् अस्माकं देशः गणतान्त्रिको घोषितः । गणतन्त्रम्, अर्थात् जनतायाः जनतायै जनतया सञ्चालिता शासनपद्धतिः, अर्थात् जनसर्वकारः । यद्यपि विश्वे विविधाः शासन – व्यवस्थाः प्रसिद्धाः तेषु समाजवादः – मार्क्सवादः, समाजवादः विकासात्मकः समाजवादः, समाजवाद:- सिंडिक्वादः, समाजवादः अराजकवादः, समाजवाद: सोवियत साम्यवादः, साम्राज्यवादः, फैसिस्टवादः, नाजीवादः, प्रजातन्त्रवादः, बहुसत्तावादः, अन्तर्राष्ट्रीयवादः, गाँधीवादः, संङ्घवादः, अधिनायकवादः चेति प्रसिद्धाः, तथापि एषु प्रजातन्त्रः सर्वोपरि।
प्रजातन्त्रम्, जनतन्त्रम्, लोकतन्त्रम् गणतन्त्रं चेति नाम्ना ज्ञायते इयं व्यवस्था । श्रूयते सप्तम-षष्ठशताब्द्यां सृष्टपर्व्या लिच्छवीनां सङ्घस्य (अष्टकूटस्य) षोडश जनपदेषु गणतान्त्रिकी व्यवस्था आसीत्, यस्याः राजधानी बिहारस्य वैशाली आसीत् । अस्य गणराज्यस्य क्षेत्रं नेपालस्य उपत्यकातः दक्षिणस्यां गङ्गां यावत् आसीत्। यद्यपि नवीने युगे सर्वप्रथममं १७७६ सृष्टीये वर्षे अमेरिका देशे इयं पद्धतिः घोषिता, तथापि अस्माकं देशे राजतन्त्रस्य आधिक्येऽपि एतद्व्यवस्था अपि सङ्केतगम्या । अथर्ववेदे (३.४.२) आगते मन्त्रेऽस्मिन् राजवरणस्य सङ्केतोऽधिगम्यते-
त्वां विशोः वृणुतां राज्याय त्वामिमाः प्रदिशः पञ्चदेवीः।
वर्ष्मन् राष्ट्रस्य ककुदि श्रयस्व ततो न उग्रो विभजा वसूनि ।।
एवमेव; अनेकैः मन्त्रैः ज्ञायते यत् वैदिके युगेऽपि जनतान्त्रिकी व्यवस्था आसीत्। मन्ये; एतादृशी मतदानस्य व्यवस्था न भवितुम् अर्हति; परन्तुः पितुः विकासः पुत्रः मत्वा प्राचीनस्य अर्वाचीनं रूपं स्वीकरणे का हानिः ?
रामायणे अपि दृश्यते यत् रामराज्याय क्षत्रपाः, सामन्ताः, वणिजः, ग्रामणीः, प्रजापतिनिधि-प्रभृतयः राज्याभिषेके सम्मिलिताः। वैश्याः अपि अभिषिञ्चन्ति स्म राजानम्। आशयोऽयं यत् राजतन्त्रेऽपि अयोग्यः उत्तराधिकारिरूपेण पुत्रः न आरोप्यते स्म । समित्याः अपि अनुमोदनम् आवश्यकम् आसीत्। अनेकशः कथाः सन्ति, याभिः ज्ञायते यत् राजानः पुत्रमोहे मुग्धाः नासन्, अपितु प्रजा- पुत्रयोः अभेददृष्ट्या राज्यसञ्चालनं न्यायपालनं च कुर्वन्ति स्म।
अस्तु; बहुकालानन्तरं पारतन्त्र्यात् मुक्तेन आस्माकं देशेन प्रजातन्त्रं लोकहितेष्टं चयितम्। अस्य मूलतत्त्वेषु स्वतन्त्रता, समानता, अधिकाराणां घोषणापत्रम्, शासन-विधानम्, धारा सभा, कार्यकारिणी, न्यायविभागः, अङ्गविभाजनम्, दलीया व्यवस्था, जनतायाः इच्छायाः अभिव्यक्तिः चेत्यादयः।
अस्माकं देशे बहुसङ्ख्यकाः जनाः सनातनिनः सन्ति। अनेकेषां धर्म-मतानाम् अवलम्बिनश्च अत्र भ्रातृत्वेन निवसन्ति । केषांश्चित् अपि कृते मत-मजहब- पालने अवरोधः । सर्वे एकस्यां पुष्पवाटिकायां विभिन्न-वृक्ष-लतावत् शोभन्ते शोभयन्ते च । अस्य देशस्य उर्वरा भूमिः एव अनेकत्वे एकत्वं पोषयति। विदेशीयोऽपि अत्र आगत्य शासन व्यवस्थां स्वीकृत्य नागरिकतां प्राप्तुं समर्थः । अत्र जातीय संघर्षस्य नीचोच्चभेदस्य नाधिकारः । कश्चित् एतादृशं करोति तु दण्डनीयः ।
गणतान्त्रिके देशेऽस्मिन् केन्द्रीया सत्ता प्रदेश- मण्डल- अनुमण्डल- प्रखण्ड- ग्रामसभां ग्राम पञ्चायतनं यावत् विभक्ता । स्वप्रतिनिधीनां निर्वाचनस्य प्रक्रिया अपि सुदृढा । । प्रतिपञ्चवर्ष केन्द्रादीनां कृते लोकसभायाः, प्रदेशानां कृते विधानसभायाः सदस्यानां गुप्तमतदानेन निष्पक्षं निर्वाचनं भवति । अस्य कृते निर्वाचनस्य आयोगः वर्तते। तदधीनाः एव प्रदेशादिषु निर्वाचनाधिकारणः सन्ति । बहुमताधारितस्य दलस्य नेता एव प्रधानमन्त्री, मुख्यमन्त्री इत्यादि-पदेषु प्रतिष्ठापितः शपथपूर्वकं शासनं सञ्चालयति । । केन्द्रे गणतान्त्रिक-प्रधानत्वेन राष्ट्रपतिः, प्रदेशेषु राज्यपालः प्रथमो नागरिकः मन्यते।
अस्तु अस्माकं देशे कार्यपालिका, विधायिका, न्यायपालिका, पत्रकारिता (मीडिया) चैताः संस्थाः संलग्नाः । प्रत्येकं स्तम्भं मत्वा एषु स्तम्भेषु जनतन्त्रं स्थितं वर्तते। प्रायेण १३५ कोटिपरिमिते बहुसङ्ख्यके देशेऽस्मिन् संसाधनाभावः । यद्यपि देशोऽयं विकसमानः, तथापि विकसितः नास्ति। जनसङ्ख्यायाः नियन्त्रणस्य अभावः एव मुख्यं कारणम् । प्राकृतिक सम्पदाभिः सम्पन्नोऽपि, कृषौ उत्पादनाधिक्येऽपि जनसङ्ख्यायाः भारात् शनैः शनैः प्रगतिपथि गच्छति।
अस्मिन् जनतन्त्रे दलीया विविधता उत्तमा । विचारवैविध्येन नीयमानाः दलाः जनकल्याणार्थं नानाविध माध्यमेन दलविशिष्टेन सञ्चालितं शासनकार्यं नवनियमेन पारितं प्रस्तावं वा विरुध्य सहमतिं दत्त्वा लोकभावनां सफलीकुर्वन्ति । परन्तु इदानीं लोकहितस्य अपेक्षया दलप्रधानस्य स्वार्थस्य
मुख्यता दृश्यते । प्रायः एते दलप्रधानाः अनुगामिनां कृते आत्मदले शुभानि स्वर्गिकानि स्वप्नानि दर्शयन् जनबलं प्राप्नुवन्ति, परन्तु एते स्वार्थसाधिनः नीतिं रीतिं च परित्यज्य कदा किं करिष्यन्ति, कथनं कठिनम् । यदि नेतारः वञ्चकाः न स्युः, यदि जनप्रतिनिधयः जनहितैषिणः स्युः, तु अवश्यमेव जन-समस्यायाः निवारणं स्यात्। जनाः सुखिनः समुन्नताश्च स्युः ।
यस्मिन् गुणो भवति, तस्मिन् कश्चित् दोषोऽपि भवत्येव । निर्दोषः कोऽपि न भवति । अतएव अस्मिन् गणतन्त्रे गुणोऽपि दोषोऽपि । पुनरपि गुणाधिक्यात् गौरवमिति । भूयो बाहुबलिनां राजनीत्यां प्रवेशोऽपि उत्थाने बाधा। यदि भक्षकः एव रक्षकः भवेत् तु का दशा ? यदि मार्जारः एव दधिरक्षकः, तु कस्मै दधि मिलिष्यति ?
अस्तु; केवलं सच्चरित्राणां कर्मण्यानां शिक्षया सम्पन्नानां परमार्थ-साधकानामेव यदा राजनीत्यां प्रवेशः, दुराचारिणां वञ्चकानां बाहुबलिनां परिवार-साधकानां वंशवादिनां कृते यदा राजनीतिः निषिद्धा स्यात्, तदैव देशोत्थाने चमत्कारो भविष्यतीति । जयतु गणतन्त्रम् ।











