जोशिमठ राहतकार्यं पुनः आरब्धम्

उत्तराखण्ड-जनपद-प्रशासनेन जोशीमठस्य भू-स्खलनप्रभावित क्षेत्रेषु सुरक्षाकार्य तीव्रीकृतम्। उत्तराखण्डस्य मुख्यमन्त्री पुष्कर-सिंह- धामी चमोली जनपदस्य जोशिमठं प्राप्य भूस्खलन-प्रभावित-क्षेत्राणां परिभ्रमण कृत्वा प्रभावित परिवारैः सह मिलितवान्। सः जनपद- प्रशासनस्य अधिकारिभि: सह सम्मिल्य स्थिति समीक्षितवान्। जोशीमठे आपदुद्धार कार्य द्रुततया प्रचलति । अष्टसदस्यीयम् विशेषज्ञदलम् दद्विदिवसाभ्यां जोशिमठ क्षेत्रे भूस्खलनस्य कारणस्य अन्वेषणार्थं वर्तते। पूर्व राज्यसर्वकारेण जोशिमठ-नगरस्य संकट क्षेत्रात् तत्कालं जनान् निष्कायितुं आदेशः दत्तः आसीत्। एतदर्थं राज्यसर्वकारः सुरक्षितस्थाने पुनर्वास केन्द्र स्थापयति । जोशिमठ- नगरे आपदा-नियन्त्रण-कक्षः अपि स्थापितः अस्ति। सर्वेक्षणकार्यस्य सम्पन्नतायै प्रभावित जनानां वैकाल्पिक-स्थानेषु स्थानान्तरणार्थ च मण्डलस्तरीयाः क्षेत्राधिकारिणः नियोजिताः सन्ति ।
प्रधानमन्त्री कार्यालयेन उत्तराखण्डस्य जोशीमठनगरे भूस्खलनकारणात् उत्पन्नस्थितिमालक्ष्य उच्चस्तरीयोपवेशनं कृतम्। प्रधानमन्त्रिणः प्रधानसचिवः डा.प्रमोदकुमारमिश्रः नवदेहल्यां प्रधानमन्त्रिकार्यालये मन्त्रिमण्डलीयसचिवैः अन्यैः वरिष्ठसर्वकारीयाधिकारिभिश्च राष्ट्रियापत्प्रबन्धन-प्राधिकरणस्य सदस्यैः सहाप उपवेशनाध्यक्षतामकरोत् । उत्तराखण्डराज्यसर्वकारस्य वरिष्ठाधिकारिणः जोशीमठजनपदाधिकारिणश्चापि आभासीयमाध्यमेन उपवेशने भागं गृहीतवन्तः । केन्द्रीय-रक्षा-पर्यटन- राज्यमन्त्री अजयभट्टः आपत् प्रभावित क्षेत्राणां निरीक्षणं कृत्वा प्रभावितजनैः सह-भाषितवान्।