प्रधानमन्त्री नरेन्द्रमोदी वीडियो कॉन्फ्रेंसिंग् इति दृश्य-सम्वादमाध्यमेन विश्वस्य सर्वतो बृहत्तम रिवर क्रूजजलयानं एमवी गङ्गा-विलास इत्येतस्य शुभारम्भं विहितवान्। कार्यक्रमे श्रीमोदी प्रोक्तवान् यत् एम् वी गंगाविलासस्य यात्रा सामान्य-यात्रा न वर्तते अपितु इयं यात्रा देशस्य अन्तर्देशीय जलमार्ग-व्यवस्थायां विकासस्य उदाहरणमेकं प्रस्तौति । अवधेयं यत् विगतवर्षे अस्य क्षेत्रस्य असाधारण-विकासमधिकृत्य प्रधानमन्त्री प्रोक्तवान् यत् गङ्गा न केवलं नदी अपितु देशस्य यात्रायाः इयं साक्षी भूत्वा तिष्ठति। स्विटजरलैंड देशस्य पर्यटकेभ्यः इमां महतीं यात्राम् उपलक्ष्य वर्धापनं प्रयच्छता। प्रधामन्त्रिणा प्रोक्तं यत् भारते व्यक्तिगत-कल्पनाम् अतिरिच्य इतोऽपि अधिकानि विविध-साधनानि सन्ति। सः प्रोक्तवान् यत् अन्या यात्रया विभिन्नानुभवाः प्राप्स्यन्ते। अस्मिन् अवसरे उत्तरप्रदेश-असमयोः मुख्यमन्त्रिणी, बिहारस्य उप-मुख्यमन्त्री, केन्द्रीय परिवहन-मन्त्री सर्वानन्द सोनोवालः च उपस्थिताः आसन्।
श्रीमोदी एकसहस्र-रूप्यकाणां विविधान्तरदेशीय जलमार्ग-परियोजनानां शिलान्यासम् उद्घाटनं च कृतवान् । अस्मिन् अवसरे प्रधानमन्त्री प्रोक्तवान् यत् देशे पञ्चविंशत्युत्तरशततोधिकाः नद्यः सन्ति याभिः भारते जलमार्ग परिवहन क्षेत्रे महत्यः सम्भावनाः सन्ति । जलमार्गं अल्पमूल्येषु यातायातसौविध्यप्रदानाय सुगमः माध्यमः अपि अस्ति सः प्रोक्तवान् यत् प्रशासनं जलमार्गस्य क्षेत्रे विकास कार्याणि कुर्वदस्ति विकासकार्यैः यातायात व्यापार पर्यटनादिक्षेत्राणि वृद्धिमुपयास्यन्ति ध्यानास्पदं वर्तते यत् चतुर्दशोत्तर- द्विसहस्रतमाब्दे देशे पञ्च-जलमार्गाणि आसन् अधुना एतेषां संख्या समेध्य एकादशाधिकशतं जाता।











