- अस्मिन् दिने महात्मा गान्धी दक्षिण आफ्रिकादेशात् स्वदेशं प्रत्यागतवान् ।
- अस्य दिवसस्य उत्सवः २००३ तमे वर्षात् आरब्धः ।
- प्रवासी भारतीयदिवसस्य उत्सवस्य निर्णयः भारतसर्वकारेण एल.एम.सिंहवी इत्यस्य अध्यक्षतायां कृतः।
सप्तदशः त्रिदिवसीय प्रवासी भारतीय-दिवस: जनवरीमासस्य दशदिनांकं यावत् मध्यप्रदेशस्य इन्दौरनगरे आयोजितः आसीत् । कार्यक्रमः भारतसर्वकारेण सह मध्यप्रदेशप्रशासनस्य संयुक्त- तत्वावधाने आयोजितः आसीत् । अस्य वर्षस्य ध्येयम आसीत् स्वदेशिनः- अमृतकाले भारतस्य उन्नतौ सहभागिनः इति । प्रधानमन्त्री नरेन्द्रमोदी जनवरी मासस्य नवमे दिनाङ्के इन्दौर-नगरे प्रवासि-भारतीय दिवसस्य औपचारिकरूपेण कार्यक्रमस्य उद्घाटनानन्तरं समारोहे स्वविचारान् प्रकटितवान् । प्रधानमन्त्री विभिन्नेषु देशेषु प्रवासि भारतीयानां जीवनस्य सङ्घर्षस्य उपलब्धीनां च अधिलेखनाय अनुरोधं कृतवान् । प्रधानमन्त्रिणा प्रवासि – भारतीयाः निवेदिताः यत् तैः भारतस्य अद्वितीय वैश्विक-व्यवस्थायाः सुदृढीकरणे सहयोग: दातव्यः । सः प्रोदीरितवान् यत् अद्य भारतं विश्वस्य शीर्ष- अर्थव्यवस्था सु अन्यतमम् अस्ति। राष्ट्रपति: सुश्री द्रौपदी मुर्मुः अपि सम्मेलनमिदं संबोधितवती । राष्ट्रपति मुर्मूः दिवसस्य समापन सत्रे भागग्रहणपुरस्सरं प्रवासि-भारतीय-सम्मान पुरस्कारान् वितरितवती। केन्द्रीयसूचना-प्रसारण-क्रीडा- युव-प्रकरण-मन्त्री अनुरागसिंहठाकुरः प्रवासिभारतीय युवकान् सम्बोधयन् प्रोक्तवान् यत् ते भारते नवाचारार्थं निवेशार्थं च आमन्त्र्यन्ते, यतः भारते निवेशस्य असीमसम्भावनाः विद्यन्ते। अधिवेशनस्य प्रथमदिने श्रीठाकुरेण कथितं यत् अन्तरिक्षस्य ड्रोनयन्त्रस्य च क्षेत्रे निवेशस्य नवीनसम्भावनाः सन्ति, तथा च एते नूतनक्षेत्रे स्तः, मध्यप्रदेशस्य इन्दौरमध्ये त्रिदिवसीयप्रवासिभारतीयदिवस सम्मेलनम् आरब्धम्, प्रधानमन्त्री नरेन्द्रमोदी जनवरीमासस्य नवमे दिनाङ्के औपचारिकरूपेण सम्मेलनस्य उद्घाटनं कृतवान्। श्री मोदी प्रवासिभारतीयदिवसावसरे एकस्य स्मारकपत्रकचिटिकायाः विमोचनंअपि कृतवान् , इयं पत्राचारचिटिका भारतीयप्रवासिनः सुरक्षिताः स्युः अपि च वैधानिकरूपेण तेषां प्रवासनं स्यादिति तदर्थमियं समर्प्यते, विदेशमन्त्रालयेन सुरक्षितं गच्छन्तु, प्रशिक्षिताः आगच्छन्तु गो सेफ गो ट्रेन्ड इत्यभियानम् आरब्धं वर्तते । एतस्य अभियानस्य लक्ष्यमिदमस्ति यत् विदेशेषु आजीविकार्थं ये भारतीयाः यात्रां कुर्वन्ति ते सुरक्षिताः सन्तु, अपि च वैधानिकनिर्देशानां समुचितं पालनं कुर्वन्तः, गमनाय च समुचितसाधनानाम् उपायानां प्रयोगविषये जागरूकाः अपि भवन्त्विति।











