इदानिं वयं सर्वदा श्रुण्मः यत् विश्वे यत्रतत्र युद्धानि भवति इति कुत्र राष्ट्रानां सङ्घर्शः अस्ति, कुत्र तु एके एव राष्ट्रे जन समुदायाः युद्धं कुर्वन्ति, अन्ये च इण्टरनेट मध्ये अपि शब्दसाङ्ख्येषु निरताः सन्ति । अस्माकं गृहे अपि एतावत् महायुद्धं अनेकवारं वर्तते तस्य वर्णणम् अत्र निवेदितम् अस्ति ।
रविवासरः विरामस्य दिनः । भोजनं समाप्य सन्तुष्टाः वयं सर्वे सुखेन उपविष्टाः स्मः मम पिता वृत्तपत्रिका पठन् अस्ति, अहं तु चित्रपट सङ्गीत श्रुण्वन् निद्रां कुर्वन् अस्मि भगिन्याः पठनम् च अन्ये प्रकोष्ठे प्रचलन् अस्ति । वातावरणम् तु अतीव शान्तं, प्रसन्नं च अस्ति ।
तदा एव मम भगिन्याः आक्रोशः श्रुतः । महाभारते शङ्खनादं कृत्वा युद्धं आरब्धम्, अस्माकं गृहे तु भगिन्याः उच्चैः आक्रन्दनं एव युद्धघोषः । सः धावन्ति बहि आगच्छति। मुषकाः अन्वेष्टुं तस्य विषेषप्राविण्यम् अस्ति इति अहं मन्ये । गुप्तहेरा इव मम भगिनी शत्रुपक्षस्य (मुषकस्य) वार्ता आनयति । प्रकोष्ठे मुषकः अस्ति एतत श्रुत्वा अस्माकं सैन्यं अनुक्षणं सज्जं भवति ।
सर्वेषां कार्यं, शस्त्रं तु पुर्वनियुक्तम् अस्ति मम पिता अस्माकं सेनापति, तस्य अस्त्रम् तु अतिशक्तिशालि सम्मार्जनी अहं, मम अनुजः च सैनिकी अहं धावन् पादत्राणम् आनयामि, मम अनुजः तस्य शस्त्रम् — काष्ठम् धारयति अतः सज्जं भुत्वा एतत् सैन्यं प्रकोष्ठे प्रविशति । अहं द्वारं पिदधामि, आक्रमणं कर्तुम सिद्धः भवामि ।
अहं हस्ताभ्यां पात्राणि इतस्ततः स्थापयन् पादत्राणेन तेषाम् उपरि प्रहाराः करोमि। एतेन भितः मुषक: द्वारं प्रति त्वरया धावति तत्र मम अनुजः काष्ठेन तस्य प्रतिक्षां कुर्वन् अस्ति काष्ठं मौ प्रहरन्तं मम अनुजं दृष्ट्वा, बहि गन्तुं अन्यः मार्गः नास्ति इति ज्ञात्वा मुषक: रणाङ्गणे मध्ये आगच्छति। तदा मम पिता तस्य अस्त्रस्य प्रयोगं कुशलतया करोति । सम्मर्जन्या शिघ्रमेव मुषकवधः भवति । परन्तु कदा कदा चतुरः मुषकः सम्मार्जनिप्रहारं अप्राप्य कस्यपि पादम् आरोहति । तदा कोष्ठे कथकलि, मणिपुरीतः भरतनाट्यंपर्यन्तं सर्वे नृत्यप्रकाराः दृश्यन्ते अस्माकं एतावत् नृत्यकौशलम् अस्ति इति वयम् अपि न ज्ञातवन्तः इतःपर्यन्तम् ।
महत् प्रयासेन मुषकवधः समाप्तं भवति शिघ्रमेव विजयी सेना मृतं मुषकं धृत्वा बहिः प्रत्यगच्छति । यदा मम अनुजः मुषकं तस्य पुच्छेन धृत्वा गृहात् बहि क्षेप्तुम गच्छति, तदा भगिनीं पिडयितुं तस्या मुखसमिपे नयति । तदा पुनः एकवारं भगिनी उच्चैः आक्रोशति । एषः अस्माकं विजयनादः । युद्धं समाप्तं इति सङ्केतः ।
परश्रमेण श्रान्ताः वयं सर्वे चायं पित्वा पुनः विरामदिनस्य आनन्दं अनुभवामः ।











