केन्द्रीयसंस्कृतविश्वविद्यालयः ,नवदेहली, गोगटे-जोगळेकर-महाविद्यालयः,रत्नागिरी,महाराष्ट्रम् इत्यनयोः संयुक्ततत्त्वावधानेन सञ्चालिते अनौपचारिकसंस्कृतशिक्षणकेन्द्रे प्रथम-द्वितीय-दीक्षा-पाठ्यपुस्तकवितरणकार्यक्रमः सुसम्पन्नः

रत्नागिरिः – केन्द्रीयसंस्कृतविश्वविद्यालयः,नवदेहली (संसदः अधिनियमेन संस्थापितः भारतसर्वकारस्य शिक्षामन्त्रालयाधीनः) एवञ्च गोगटे-जोगळेकर-महाविद्यालयः, रत्नागिरिः, महाराष्ट्रम् इत्येताभ्यां सञ्चालिते अनौपचारिकसंस्कृतशिक्षणकेन्द्रे जनवरीमासस्य षोडशतमे दिनाङ्के, सोमवासरे पाठ्यपुस्तककार्यक्रमः समायोजितः। तत्रावसरेsस्मिन् केन्द्राधिकारिण्याः डॉ० कल्पना आठल्ये-महोदयायाः संयोजने केन्द्रशिक्षकः आचार्यः विशालप्रसादभट्टः २०२२-२३ तमसत्रस्य संस्कृतभाषाप्रमाणपत्रीयपाठ्यक्रमस्य अध्येतॄभ्यः अध्येत्रीभ्यश्च प्रथमदीक्षापुस्तकानि संस्कृतभाषादक्षतापाठ्यक्रमस्य च अध्येतॄभ्यः अध्येत्रीभ्यश्च द्वितीयदीक्षापुस्तकानि व्यतरत्। तदनन्तरं केन्द्राधिकारिणी डॉ ० कल्पना आठल्ये-महोदया समुपस्थितान् अध्येतॄन् पाठ्यक्रमद्वयं प्रशंस्य संस्कृतभाषाभ्यासाय प्रेरयत्। तदनु अध्येतॄन् अध्येत्रीश्च सम्बोधयता केन्द्रशिक्षकेण आचार्यःविशालप्रसादभट्टेन सविस्तरं पाठ्यपुस्तकानां परिचयपुरस्सरं संस्कृतभाषाभ्यासाय केन्द्रीयसंस्कृतविश्वविद्यालयेन निर्मितायाः पाठ्यसामग्र्याः पाठ्यक्रमस्य च उद्देशः उपयोगिता च प्रतिपादिता। नवदेहलीस्थस्य केन्द्रीयसंस्कृतविश्वविद्यालयस्य कुलपतीनां प्रो० श्रीनिवासवरखेडी-महोदयानां संरक्षणे अपि च मुक्तस्वाध्यायपीठस्य निदेशकानां डॉ० रत्नमोहनझावर्याणां कुशलमार्गदर्शने संयोजने च गोगटे-जोगळेकर-महाविद्यालयेsस्मिन् अनौपचारिकसंस्कृतशिक्षणकेन्द्रमिदं गतानां षण्णां वर्षाणामिव नैरन्तर्येण अस्मिन् वर्षेsपि सञ्चाल्यते। २०२२-२३ तमे सत्रे केन्द्रेsस्मिन् अष्टात्रिंशत् अध्येतारः प्रमाणपत्रीयपाठ्यक्रमे तथा च विंशतिः अध्येतारश्च संस्कृतभाषादक्षतापाठ्यक्रमे प्रवेशं स्वीकृत्य आचार्यस्य विशालप्रसादभट्टस्य मार्गदर्शने संस्कृतभाषाभ्यासं कुर्वाणाः वर्तन्ते। अस्मिन् केन्द्रे विज्ञान-गणित- वाणिज्य-कलाशाखीयाः विविधाः च्छात्रछात्राः,सेवानिवृत्ताः सामाजिकाः, प्राध्यापकाः,शिक्षकाः,शिक्षिकाः,चिकित्सकाः,अभियन्तारः,गृहिण्यः,प्रबन्धकाः,व्यापारिणः,कथावाचकाः,पुरोहिताः इत्यादयश्च प्रातःकाले सायंकाले रात्रिकाले च सोत्साहं रुचिपूर्वकं अधीयानाः वर्तन्ते। आहत्य अस्मिन् सत्रे अष्टपञ्चाशत् सङ्ख्याकाः अध्येतारः अध्येत्र्यश्च संस्कृतभाषाभ्यासरतास्सन्ति।