वित्तमन्त्री निर्मलासीतारमणः संसदि अस्य वर्षस्य अर्थात् द्विसहस्र-त्रयोविंशतिः- चतुः विंशति-तम वर्षस्य केन्द्रीय- वित्तपत्रं प्रस्तुतवती

बजटस्य सप्त प्राथमिकतानि ‘सप्तर्षि’ समावेशीविकासः, निर्धनानाम् लाभाय, आधारभूतसंरचना, निवेशः च, सम्भावना, हरितवृद्धिः, युवाशक्तिः, वित्तीयक्षेत्रं च उपशमयति इति वित्तमन्त्री निर्मला सीतारमणः बुधवासरे बजटं प्रस्तुत्य अवदत्।

  • प्रधानमन्त्री मोदी वित्तपत्रं श्लाघितवान्, उक्तवान् च एतत् वञ्चितेभ्यः प्राथमिकतां ददाति।
  • समाजस्य, निर्धनानां, ग्रामाणां मध्यमवर्गस्य च स्वप्नान् पूरयितुं प्रयासं करोति।
  • आयकर-दातृभ्यः आयकरे न्यूनीकरणम्। 5 लक्षतः विवर्ध्य सप्तलक्ष-रूप्यकाणि अभवत्।
  • चल-वित्तवर्षाय भारतस्य आर्थिकवृद्धिः सप्तप्रतिशतं आकलिता।
  • धननिवेश-परिव्ययं त्रयस्त्रिंशत् प्रतिशतं विवर्ध्य दश-लक्ष-कोटिरूप्यकाणि करिष्यते, प्रभावि-धनगत-व्ययस्य वित्तपत्रं त्रयोदश-व -दशमलव-सप्त-लक्ष-मितं निश्चितम्।

वित्तमन्त्री निर्मलासीतारमणः अद्य संसदि द्विसहस्र-त्रयोविंशति-चतुर्विंशति-तम-वर्षस्य केन्द्रीय वित्तपत्रं ख्यापितवती। तया उक्तं यत् यत् कठिनसमये अपि भारतीयार्थव्यवस्था सुमार्गे अस्ति, उज्जवल भविष्यं प्रति अग्रे सरति । श्रीमति- सीतारमणः उक्तवती यत् चलवर्षे आर्थिक-विकास-मूल्यानुमानं सप्तप्रतिशतं इति अनुमीयते । वित्तमन्त्रिणा उक्तं यत् अमृतकाले प्रथममेतत् वित्तपत्रम् अस्ति। वित्तमन्त्रिणा उद्घुष्टं यत् पूञ्जी-निवेश-परिव्ययं त्रयस्त्रिंशत् प्रतिशतं विवर्ध्य दश लक्ष-कोटि-रूप्यकाणि करिष्यन्ते। यत् हि सकल-गृहोत्पादस्य त्रीणि-दशमलव- त्रीणि प्रतिशतं भविष्यति । श्रीमतिसीतारमणः उक्तवती यत् आधारभतसंरचनायां निवेश-वर्धनार्थं, प्रशासनेन राज्य-प्रशासनानि पञ्चाशत् वर्षाणां व्याजमुक्त ऋणं एकवर्षस्य कृते अनुवर्तनाय निर्णयो विहितः, येन ते पूरक-नीतिगतकार्यान्वयनाय प्रोत्साहनं प्राप्नुयुः। यस्मिन् एक दशमलव त्रीणि-लक्ष-कोटिरूप्यकाणां परिव्ययः वर्धितः। आधारभूत संरचनायां निजनिवेशावसरान् वर्धनार्थं प्रशासनेन आधारभूतसंरचना-वित्त-सचिवालयस्य स्थापना विहिता, यो हि रेलविभागे, राजमार्गेषु, नगरीयाधार-भूतसंरचनायां विद्युति अधिक-निवेशाय सर्वेषां हितधारकानां साहाय्यं करिष्यति।
प्रधानमन्त्री नरेन्द्रमोदी उक्तवान् यत् अमृतकाले प्रथम-केन्द्रीयवित्तपत्रेण विकसितभारतस्य आकाङ्क्षाः सङ्कल्पान् च पूरयितुं एक दृढाधारः स्थापितः। अद्य संसदि केन्द्रीयवित्त-पत्रं ख्यापनानन्तरं स्वीय-सम्बोधने श्रीमोदिना उक्तं यत् एतत् वित्तपत्र वञ्चितेभ्यः प्राथमिकतां ददाति, अपि च समाजस्य, निर्धनानां, ग्रामाणां, मध्यमवर्गस्य च पूरयितुं प्रयासं करोति। तेन वित्तमन्त्रिणः निर्मलासीतारमणस्य तस्याः सम्पूर्णदलाय च ऐतिहासिकवित्तपत्र-निमित्तं शुभकामनाः वितरिताः। प्रधानमन्त्री उक्तवान्, आधारभूत-संरचनायां दशलक्ष-कोटिरूप्यकाणाम् अभूतपूर्वनिवेशः भारतस्य विकासाय नूतनोजां गतिञ्च प्रदास्यति। तेनोदीरितं यत् एतेभ्यः निवेशेभ्यः युवभ्यः वृत्त्यवसराः उत्पन्नाः भविष्यन्ति । येन बृहत्संख्यायां जनेभ्यः वृत्यवसराः भविष्यन्ति। श्रीमोदी उक्तवान् यत् एतत् वित्तपत्रं सतत-भविष्याय हरितविकासः, हरितार्थव्यवस्था, हरिताधारभूत संरचना, हरितवृत्तयः इत्येयेभ्यः अभूतपूर्व- विस्तारः अपि प्रदास्यति।