उज्जयिनीस्थपाणिनिसंस्कृत विश्वविद्यालये भारतीयज्ञानपरम्परायां परिधानसौंदर्यप्रशाधनञ्च” इति विषयकं व्याख्यानमायोजितम्

उज्जयिनीस्थ महर्षिपाणिनि संस्कृतवैदिकविश्वविद्यालये वैक्रमाब्द: २०७९ फाल्गुनकृष्ण चतुर्थ्यां तदनु अष्टतमेदिनाङ्के विश्वविद्यालयस्य मान्य: कुलपति: आचार्यविजयकुमारसीजी वर्यस्य निर्देशने बहूनां भिन्नविषयकानां कार्यक्रमाणां आयोजनं विश्वविद्यालयेन क्रियते। आस्मिन्नैवक्रमे “भारतीयज्ञानपरम्परायां परिधानं सौंदर्यप्रसाधनञ्च”इति विषयाधारितं विशिष्टव्याख्यानस्यमायोजनं विश्वविद्यालयस्य योगेश्वरश्रीकृष्णयोगभवनस्य सभागारे जातम् अस्मिन् कार्यक्रमे मुख्यवक्तृरुपेण मुम्बईनगरतः समागतवती प्रसिद्धाभिनेत्री सुश्रीश्वेताओझामहोदया
अध्यक्षरूपेण साहित्यविभागप्रमुख: डॉ तुलसीदासपारौहामहोदय: च् उपस्थितौ आस्ताम् ।
श्वेतामहोदया स्ववक्तव्ये सौंदर्यशास्त्रोक्त परिधानाभूषण धारणसौंदर्यप्रसाधनस्य नैकान प्रमुखानपक्षान अस्माकं जीवने तेषां महत्त्वम् उपयोगिता विषये च् उक्तवती । अध्यक्षमहोदयेन साहित्यशास्त्रे वर्णितं अलङ्काराभूषणं सौन्दर्यं तस्य वैशिष्ट्यञ्च प्रतिपादितम्।
कार्यक्रमस्य शुभारम्भः वाग्देव्याः सरस्वत्याः समर्चनेन दीपप्रज्वालनेन वैदिकमङ्गलाचरर्णेन च जातः। तदनु विश्वविद्यालयस्य कुलगानं अतिथिनां उत्तरीयवस्त्रप्रदानेन, पुष्पमालया च स्वागतं जातम्। प्रास्ताविकं भाषणं ज्योतिषविभागप्रमुखेन डॉ. शुभम् शर्ममहोदयेन प्रस्तुतम्। अस्मिन् कार्यक्रमे विश्वविद्यालयस्य वेदव्याकरणविभागाध्यक्ष: डॉ. अखिलेशकुमारद्विवेदिमहोदय: वेदविभागस्य आचार्य:
डॉ. संकल्पमिश्रवर्य: सर्वे आचार्या:, छात्रा: अन्यजनाः च उपस्थिता: आसन् । सञ्चालनं डॉ. मुनीशमिश्रमहोदयेन आभारप्रदर्शनञ्च कुलसचिवेन डॉ. दिलीपसोनीमहोदयेन कृतम्। कल्याणमन्त्रेण सह कार्यक्रमस्य समापनं जातम्।

महर्षिपाणिनि संस्कृतवैदिकविश्वविद्यालये वैक्रमाब्द: २०७९ फाल्गुनकृष्ण चतुर्थ्यां तदनु अष्टतमेदिनाङ्के विश्वविद्यालयस्य मान्य: कुलपति: आचार्यविजयकुमारसीजी वर्यस्य निर्देशने बहूनां भिन्नविषयकानां कार्यक्रमाणां आयोजनं विश्वविद्यालयेन क्रियते। आस्मिन्नैवक्रमे “भारतीयज्ञानपरम्परायां परिधानं सौंदर्यप्रसाधनञ्च”इति विषयाधारितं विशिष्टव्याख्यानस्यमायोजनं विश्वविद्यालयस्य योगेश्वरश्रीकृष्णयोगभवनस्य सभागारे जातम् अस्मिन् कार्यक्रमे मुख्यवक्तृरुपेण मुम्बईनगरतः समागतवती प्रसिद्धाभिनेत्री सुश्रीश्वेताओझामहोदया