कस्मिंश्चित् काले वीरसेनो नाम राजा चन्दनगिरिं परिपालयति स्म । तस्य पुत्रः जयसिंहः । पुत्री कमलावती । जयसिंहः अन्वर्थनामकः महाशूरः च आसीत् । अनेकेषु युद्धेषु विजयः सम्पादितः आसीत् तेन । पराजयं सर्वथा न जानाति स्म सः ।
वीरसेनः पुत्रं जयसिंहम् उत्तराधिकारिणं घोषयित्वा राज्यभारं सर्वं पुत्रे एव निक्षिप्तवान् आसीत् । वीरसेनः नाममात्रेण राजा आसीत् । कमलावती प्राप्तवयस्का जाता । अतः वीरसेनः पुत्र्याः निमित्तं योग्यस्य वरस्य अन्वेषणे निमग्नः आसीत् । इदं ज्ञात्वा जयसिंहः – “मम अनुजां कश्चित् महाशूरः एव परिणयेत् । तन्नाम यः मां पराजित्य जयशाली भविष्यति तस्मै एव मम अनुजा दातव्या” इति पितरम् उक्तवान् । “भवतः चिन्तनम् युक्तमेव अस्ति । किन्तु स्पर्धा भवता सह मास्तु अन्यैः सह भवतु'” इति उक्तवान् वीरसेनः ।
पितुः वचनं निराकुर्वन् जयसिंहः – “मां यः जेष्यति तेन सहैव मम भगिन्याः विवाहः” इति दृढस्वरेण उक्तवान् । तथैव उद्घोषितवान् च ।
कानिचन दिनानि यावत् केऽपि राजकुमाराः अग्रे न आगतवन्तः । यतः ‘जयसिंहं जेतुं शक्नोमि’ इति कस्यापि विश्वासः न आसीत् । अन्ते श्यामलदेशस्य राजकुमारः वायुवर्मा कमलावतीं परिणेतुम् इच्छन् अग्रे आगतवान् ।
वायुवर्मा सर्वदृष्ट्या अपि कमलावत्याः अनुरूपः वरः आसीत् । कमलावती अपि तं परिणेतुं सिद्धा आसीत् ।
ततः पूर्वं वायुवर्म जयसिंहयोः स्पर्धा आयोजनीया आसीत् । अतः शुभे मुहूर्ते स्पर्धा अपि निश्चिता ।
किन्तु स्पर्धायाः पूर्वदिने काचित् दुर्घटना प्रवृत्ता । यदा राजकुमारी उद्याने विहरन्ती आसीत् तदा केचन दुष्टाः ताम् अपहृतवन्तः ।
जयसिंहः वायुवर्माणम् आहूय “मम अनुजां केऽपि दुष्टाः अपहृतवन्तः सन्ति । अहं ताम् अन्वेष्टुं प्रस्थितवान् अस्मि । मम आगमनानन्तरं स्पर्धा भवतु” इति उक्तवान् ।
‘ताम् अन्वेष्टुम् अहम् अपि आगमिष्यामि । ते दुष्टाः चित्रहिंसया दण्डनीयाः” इति उक्तवान् वायुवर्मा ।
ततः उभौ अपि शस्त्राणि स्वीकृत्य उद्यानम् आगतवन्तौ । सम्यक् परिशीलनेन ताभ्यां ज्ञातं यत् दुष्टैः कमलावती कुत्र नीता इति । यतः बुद्धिमत्या कमलावत्या स्वेन चितानि पुष्पाणि गमनमार्गे पातितानि आसन् । तत् दृष्ट्रा वायुवर्मा जयसिंहः च पतितानां पुष्पाणां मार्गम् अनुसृत्य बहुदूरं गतवन्तौ । तत्र कश्चित् योगी कस्यचित् वृक्षस्य अधः उपविष्टवान् आसीत् ।
योगिनः मेलनानन्तरं पुष्पमार्गः ताभ्यां न दृष्टः । ‘कमलावत्याः समीपे विद्यमानानि पुष्पाणि समाप्तानि स्युः’ इति चिन्तयन्तौ तौ योगिनः समीपं गत्वा – “स्वामिन् । एतेन मार्गेण कैश्चित् दुष्टैः बलात् नीयमाना स्त्री भवता दृष्टा वा ?” इति पृष्टवन्तौ ।
“आम्, चतुर्भिः दृढकायैः बलात् नीयमाना काचित् युवतिः मया दृष्टा । अहं तान् बहुधा उपदिष्टवान् । ते न श्रुतवन्तः । एतेन मार्गेण एव ते गतवन्तः” इति उक्तवान् योगिनः वचनानुसारं तौ अरण्यमार्गेण गतवन्तौ । तत्रत्ये कस्मिंश्चित् पर्वते काचित् गुहा आसीत् । गुहायाः द्वारे एकं पुष्पं पतितम् आस्त् ।
“दुष्टाः कमलावतीम् एतस्यां गुहायां स्थापितवन्तः इति भाति । अहं गत्वा तस्याः विमोचनं साधयित्वा आगमिष्यामि ” इति उक्तवान् वायुवर्मा ।
“न, न भवान् अत्रैव भवतु अहमेव तस्याः विमोचनं साधयित्वा आगमिष्यामि ” इति उक्त्वा जयसिंहः गुहां प्रविष्टवान् । यदा सः अन्तः प्रविष्टवान् तदा एव कयाचित् महत्या शिलया गुहायाः द्वारं पिहितम् अभवत् । गुहायाः बहिः स्थितवान् वायुवर्मा कस्याश्चित् युवत्याः आर्तनादं श्रुतवान् । ध्वनिम् अनुसृत्य वायुवर्मा गतवान् । तत्र कस्मिंश्चित् वृक्षे राजकुमारी बद्धा आसीत् । दुष्टाः तां भाययन्तः आसन् ।
तेषां नायकः कमलावतीम् उद्दिश्य – “उन्मत्ते, भवतीं रक्षितुम् आगतवन्तौ वीरौ गुहायां बद्धौ स्तः । अतः भवती मां परिणयेत् एव । मत्तः भवतीं रक्षितुं कोऽपि नास्ति एव” इति वदन् आसीत् । तदा वायुवर्मा खड्गम् आकृष्य एवं कथयितुः उपरि हठात् आक्रमणं कृतवान् । तदा तत्रत्याः दृढकायाः सर्वे सम्भूय वायुवर्माणं सम्मुखीकर्तुम् आगतवन्तः । किन्तु आत्मरक्षणे असफला ते अरण्ये कुत्रचित् पलायितवन्तः । वायुवर्मा कमलावत्याः रज्जुबन्धनम् अपनीय तां स्वीकृत्य गुहायाः समीपम् आगतवान्।
सौभाग्यवशात् केचन अरण्यवासिनः तेन मार्गेण गमनसमये गुहायाः द्वारे अवरोधरूपेण स्थितां शिलाम् अपसार्य जयसिंहं रक्षितवन्तः आसन् । अनन्तरं वायुवर्मा, जयसिंहः, कमलावती च राजधानीं प्राप्तवन्तः । पुरोहितम् आहूय विवाह मुहूर्तस्य निश्चयं कृतवान् कमलावत्याः पिता ।
तदा जयसिंहः – “स्पर्धायाम् अहं जितः चेत् एव विवाहः खलु ? यदि दुष्टाः तां न अपाहरिष्यन् तर्हि अद्य स्पर्धा अभविष्यत् खलु !” इति पृष्टवान् ।
“भवतोः स्पर्धा तु अद्य प्रवृत्ता एव। मां मोचयितुं भवता सह स्पर्धित्वा जयं प्राप्तवान् अस्ति एषः । पुनश्च स्पर्धा किमर्थम् ?” इति उक्तवती कमलावती ।
जयसिंहः मौनं शिरः अवनमय्य स्थितवान् । किमपि न उक्तवान् । दुष्टाः कमलावतीं यत् अपहृतवन्तः आसन् तत् असत्यं राज्ञा कमलावत्या च अभिनीत नाटकम् इति जयसिंहेन न ज्ञातम् एव ।











