उज्जयिनीस्थमहर्षिपाणिनि संस्कृतवैदिकविश्वविद्यालयस्य संस्कृतशिक्षणप्रशिक्षणज्ञान विज्ञानसंवर्धनकेन्द्रस्य तत्त्वावधाने आयोज्यमानस्य रुद्राभिषेकपूजनपाठविधान प्रशिक्षणस्य समारोप: वैक्रमाब्द: २०७९ फाल्गुनकृष्ण द्वादशम्यां तदनु सप्तदशतमे दिनाङ्के सञ्जात:। प्रशिक्षणमिदं महाशिवरात्रे:उपलक्ष्ये दशदिनाङ्कादारभ्य सप्तदशदिनाङ्कपर्यन्तं प्राचलत्। अत्रप्रशिक्षणे
शिवपूजनविधानमंत्रस्त्रोत्रादि -विषये सरलतया प्रशिक्षतम्। देशस्य विदेशस्य च् नैका: धर्मजिज्ञासव: सोत्साहेन अस्मिन्प्रशिक्षणे भागं नीतवन्तः। विश्वविद्यालयस्य मान्य: कुलपति: आचार्यविजयकुमारसीजी वर्यस्य निर्देशने विश्वविद्यालयस्य केन्द्रेण अस्य प्रशिक्षणस्यामायोजनं अकारि । सम्पूर्तिकार्यक्रमे मुख्यवक्तृरुपेण वेदव्याकरणविभागाध्यक्ष: प्रभारिनिदेशकः संस्कृतसंवर्धन केन्द्रम् डॉ. अखिलेशकुमारद्विवेदिमहोदय: उपस्थितः आसीत् । महोदयः स्ववक्तव्ये शिवपूजनस्य नैकान् प्रयोगिकानपक्षान् रुद्राभिषेकस्य वैज्ञानिकं महत्त्वञ्च प्रतिपादितवान।
कार्यक्रमस्य शुभारम्भः वैदिकमङ्गलाचरणेन जातः। तदनु वाचिकं स्वागतं जातम्। प्रशिक्षकरूपेण वेदविभागस्य आचार्याः डॉ. संकल्पमिश्रवर्य:, डॉ. अङ्कितशाण्डिल्य:, श्रीप्रणवकश्यप: ,डॉ.पतञ्जलि कुमारपाण्डेय:,प्राचार्य: मौनी बाबावेदविद्यालय:,उज्जयिनी प्रमुखरूपेण आसन्। सञ्चालनम् आभारप्रदर्शनञ्च कार्यक्रम समन्वयकेन डॉ. दिनेश चौबेमहोदयेन कृतम्। कल्याणमन्त्रेण सह कार्यक्रमस्य समापनं जातम्।











