उज्जयिनीस्थमहर्षिपाणिनि संस्कृतवैदिकविश्वविद्यालयस्य शिक्षाशास्त्रविभागस्य तत्त्वावधाने वैक्रमाब्द: २०७९ फाल्गुनकृष्ण दशम्यां तदनु पञ्चदशतमे दिनाङ्के “निश्शुल्क प्राथमिक उपचार प्रशिक्षणस्य आयोजनं जातम्। अस्मिन् प्रशिक्षणे प्रशिक्षकरूपेण जिलाचिकित्सालयस्य शल्यक्रियाविशेषज्ञ: डॉ.नरेन्द्रगोमे महोदय:उपस्थितः आसीत्। आदौ विश्वविद्यालयस्य मान्य: कुलपति: आचार्यविजयकुमारसीजीवर्य: सभां सम्बोधयन् उक्तवान् यत् आपात्कालस्य समये यदि वयं प्रारम्भिक उपचार प्रक्रियायां प्रशिक्षिता: भवेम् ,तदा अन्येषां दुर्घटनाग्रस्तजनानां प्राणरक्षां कर्तुं शक्नुम: । अतःअस्य प्रशिक्षणस्य आयोजनं कृतम्।
डॉ. नरेन्द्रगोमेमहोदयेन प्राथमिक उपचारस्य विभिन्नान प्रायोगिकानपक्षान् उद्घाटितं सीपीआर, सर्पदंशविषये च् स्थित्यानुकूलप्रयोगविषये बहु उत्तमतया प्रबोधितः। अस्मिन्कार्यक्रमे साहित्यविभागाध्यक्ष: डॉ. तुलसी दासपारौहामहोदय:, वेदव्याकरणविभागाध्यक्ष: डॉ.अखिलेशकुमारद्विवेदिमहोदय:
, वरिष्ठाचार्य: डॉ.संकल्प मिश्रमहोदय: विश्वविद्यालयस्य सर्वे आचार्याः छात्राश्च प्रशिक्षणे भागं गृहीतवन्तः।
कार्यक्रमस्य शुभारम्भः वाग्देव्याः सरस्वत्याः समर्चनेन वैदिकमङ्गलाचरणेन च जातः। तदनु वाचिकस्वागतं शिक्षाशास्त्रविभागप्रमुखेन डॉ शुभम् शर्ममहोदयेन प्रस्तुतम्। सञ्चालनम् डॉ.शैलेन्द्रकुमारपाण्डेय महोदयेन,आभारप्रदर्शनं कार्यक्रमसमन्वयकेन डॉ.अखिलेशकुमारपाण्डेय महोदयेन कृतम्। कल्याणमन्त्रेण सह कार्यक्रमस्य समापनं जातम्।











