भारतस्य रिकी केजः तृतीयवारं ग्रेमीपुरस्कारं प्राप्तवान्

भारतीय संगीतकार रिकी केजः तृतीयवारं ग्रैमी पुरस्कारं विजित्य इतिहासं रचितवान्। सः अद्वितीय: भारतीयोऽस्ति यः इमां उपलब्धिं प्राप्तवान्। अमेरिकायाः लॉस एंजिल्स नगरे पञ्चषष्टि-वार्षिक ग्रैमी अवार्ड्स – इत्यस्मिन् तृतीयवारम् एषः ग्रैमी पुरस्कारं विजितवान्। विंशति द्वाविंशतिः तमेवर्षे सः न्यू-एज- एल्बमइत्यस्य कृते अथ पञ्चदशाधिक द्विसहस्रतमे वर्षे विंड्स ऑफ समसारा इत्यस्य कृतेऽपि ग्रैमी पुरस्कारं प्राप्तवान् आसीत्। संगीत-मुद्रिका डिवाइन टाइड्स यद्धि वसुधैव कुटुम्बकम् इत्यस्य कृते समर्पितम् अस्ति।