साहसं जनानां हृदये भवति न तु शस्त्रेषु – छत्रपति शिवाजी महाराजः जयन्ती विशेष

कश्चित् बालकः एकस्मिन् लघुनि सिंहासने उपविष्टवान् आसीत् । तस्य भटाः कञ्चन ग्रामाधिकारिणम् आनीतवन्तः । तस्य अपराधः एवम् आसीत् एकस्याः अनाथविधवायाः बलात्करणम् इति। ग्रामाधिकारिणः हस्तौ पादौ च बद्धौ आस्ताम् । अनाथानाम् असहायानां रक्षणं ग्रामाधिकारिणः कर्तव्यम् । किन्तु सःन केवलं दुष्टः अपि च गर्वी । एतावान् लघुबालकः तस्य चेष्टाः सुनिशितं परिशीलयतीति तस्य ग्रामाधिकारिणः ऊहापि नाभवत् । ग्रामाधिकारिणं न केवलं गृहीतवान् अपि तु न्यायस्थानं प्रति तम् आनीतवान् सः बालकः । सर्वविषयश्रवणानन्तरं ग्रामाधिकारी दारुणमपराधं कृतवानिति स्पष्टमभवत् ।
दृढस्वरेण बालराजकुमारः स्वनिर्णयं प्रकटितवान् -’एतस्य पादद्वयं, हस्तद्वयं कर्तयन्तु’इति।सर्वे जनाः आश्चर्यचकिताः जाताः, आनन्दमन्वभवन् च । जनाः चर्चां कुर्वन्ति स्म-“पश्यतु अस्माकं बालराजकुमारः न केवलं न्यायप्रिय: अपि तु, दुष्टेभ्यः किञ्चिद् अपि भीतिम् नानुभवति । सर्वस्याऽपि दोषिणः योग्यं दण्डं विदधाति । दीनानां, दुःखितानां, निर्धनानां विषये तस्य हृदयं करुणापूर्णम् अस्ति । तेषां साहाय्यता, संरक्षणं च तस्य प्राणसमम् । सर्वेभ्योऽपि विशिष्टः गुणः अस्ति–सर्वाः स्त्रियः राजकुमारः स्वमातृवत् भावयति । एषः ज्येष्ठः भूत्वा देशं, धर्मं च रक्षिष्यति इत्यत्र नास्ति सन्देह: । वयमपि अवश्यं तं सहकुर्मः”इति। कोऽसौ राजकुमार इति ज्ञातुमिच्छा अस्ति वा ? सः एव शिवाजि: । अस्याः घटनायाः समये तस्य आयुः आसीत् केवलं चतुर्दशवर्षाणि । शिवराजराज्ये पूना, तत्समीपप्रान्ताः च आसन् । पिता शाहराजः बीजपुरराजस्य (सुलतानस्य) सभायाम् एकः सेनापति: । जनकः पुत्रस्य स्वभावं सम्पूर्णतया जानाति स्म । विदेशीयानां पालकानां पुरतः अनमतः स्वकुमारस्य सिंहसदृशं धैर्यं यदा शाहराज:स्मरति स्म तदा तस्य हृदयं पुलकितं भवति स्म । सा घटना एव अद्भुता- एकदा शाहराजः स्वपुत्रं बीजपुरराजस्य सभां नीतवान् । तदा शिवराजः द्वादशवर्षीयः अपि नासीत्। तदानीन्तन-सम्प्रदायानुसारं शाहराजः त्रिवारं हस्तेन भूमिं स्पृशन् शरीरं नामयित्वा प्रभोः नमस्कारं कृतवान् । स्वपुत्रमपि तथैव करोतु इति सूचितवान् । तद्वाक्यश्रवणेनैव पादचतुष्टयं पृष्ठ्त: गत्वा दृढं दण्डवत् स्थित्वा असम्मतिं सूचयन् शिरः चालितवान्, अहं परपालकानां पुरतः शिरः न नामयामि इति । शिवराजस्य एतादृशी भावना तस्य तीक्ष्णदृष्टया प्रकटिता अभवत् । सिंहसदृशगाम्भीर्येण, दर्पेण च सः सभातः बहिरागतवान् ।
छत्रपतिशिवाजी (१६३०-१६८०) मराठा साम्राज्यस्य संस्थापकः। बीजपुरसुलतानस्य पुरतः एतादृशसाहसेन व्यवहृतवन्तः जनाः तावत्पर्यन्तं केऽपि नासन् । एतस्य लघुबालकस्य धैर्यं दृष्ट्वा सर्वेऽपि आश्चर्यचकिताः अभवन् । स्वपुत्रस्य एतादृशचेष्टाभिः शाहराजः कुपितः अभवद् वा ? नैव प्रत्युत स्वमनसि अधिकम् आनन्दम् अनुभूतवान् स: । दौर्भाग्यवशात् स्वतन्त्ररुपेण स्थातुं तस्य अवसर: नासीत् । अतः शाहराजः स्वपुत्रं पुण्यपत्तनं (पूना) प्रेषितवान् । स्वपुत्रः वा स्वतन्त्रराजः भवेदिति शाहराजस्य आशयः । एतावति लघुवयसि शिवराजे एतावत् धैर्यं, शौर्यं, देशभक्तिः, धर्मे अनुरागः इत्यादय: उदात्तगुणाः कथम् आगता: ? इति प्रश्नः भवतां मनसि सहजतया भवत्येव । एतेषां सर्वेषां कारणभूता आसीत् तस्य माता जीजाबाई । शिवराजस्य बाल्यदारभ्य सा तं रामायणे महाभारते, पुराणेषु च स्थितानां वीराणां, महात्मनां जीवनकथाः श्रावयति स्म । एतादृशवीरगाथाः, धर्मगाथाः श्रावं श्रावं शिवराजस्य मनसि अपि स्वयं रामः,कृष्णः, अर्जुनः, भीमः भवेयम् इति भावना जायते स्म । एतावदेव न, शिवराजस्य विषये परमेश्वरस्य कृपा अपि आसीत् । गुरुरूपेण, मार्गदर्शकरूपेण च दादाजी कोण्डदेव इति महापुरुषः लब्धः । कर्णाटकप्रान्ते कदाचित् भव्यं दिव्यं विजयनगरसाम्राज्यम् आसीत् । तस्य साम्राज्यस्य कथाः तदा तदा शिवराज:शृणोति स्म । एताः कथाः तस्मै महतीं स्फूर्तिं दत्तवत्यः ।
मुघलचक्रवर्तिनः जालः
शिवराजस्य चेष्टाः औरङ्गजेबस्य शिरोवेदना इव जाताः कोपेन तप्तः सः । शिवराजं नाशयितुम् अत्यधिकेन सैन्येन दक्षिणप्रान्तमगन्तुमैच्छत् । किन्तु तस्य पर्वतमूषकस्य नखतीक्ष्णताम् पूर्वमेव आस्वदत सः । अतः किञ्चिदालोच्य् ‘सिंहं प्रतियोद्धुं सिंह एव आवश्यक’इति निश्चितवान् । एतस्य कार्यस्य कृते मीरजामहाराजं जयसिहं चितवान् । राजा जयसिंहः न केवलं महान् पराक्रमी, विवेकी सेनापतिश्च । एतादृशः योग्यः पुरुषः परधर्मीयाणां सेवायां ध्न्यो भवामीति चिन्तयतीति ल्ज्जास्पदः विषयः अस्माकम् । अधिकसेनया जयसिंहः दक्षिणापथमागतः बीजपुरसुलतानेन सन्धिं विरचितवान् । सर्वाभ्यः दिग्भ्यः शिवराजं परितः सेनां निवेशितवान् । शिवराजः एकेन लेखेन सन्घिं प्रस्तुतवान् । तथैव जयसिंहेन मिलित्वा संभाषणं कृत्वा औरङ्गजेबेन सह संभाषणार्थमपि अङ्गीकृतवान् । सह्याद्रिगिरिशिखरेषु स्वेच्छया विहरन् मृगराजः शिवराजः किमर्थम् एवं हठात् चक्रवर्तिनः वशीभूतः ? इति सर्वे आश्चर्यचकिताः जाताः ।अग्रे कोऽपि गूढार्थः भवतीति सर्वे भावयन्ति स्म । सेवां करोमीति व्याजेन गत्वा औरंगजेबं ह्न्यात् इत्यपि चिन्तयन्ति स्म केचन । एतेन शिवराजस्य धैर्यसाहसादिविषये, समयस्फूर्तिविषये, समयं दृष्ट्वा शत्रुनाशनाय युक्तिप्रयोगविषये च जनाः कथं विश्वासं प्राप्तवन्त: आसन्निति अस्माभिः ज्ञायते । चिन्तनानुसारं शिवराजः स्वपुत्रेण सम्भाजिराजेन सह औरङ्गजेबेन मेलितुं प्रस्थितः । राजकुटुम्बिनः, पौराः च किं भविष्यति इति उत्कण्ठया आसन् । मार्गमध्ये अनेके हिन्दवः सादरं स्वागतं कृतवन्तः । शिवराजः आगरां प्राप्तवान् । तस्य कुटिलोपायविषये औरङ्गजेबः अपि अल्पचिन्तनं न कृतवान् । अत एव शिवराजं कदापि स्वसमीपमागन्तुं नाङ्गीकृतवान् । राजसभायामपि शिवराजस्य स्थानं दूरे एव अस्थापयत् । एतेन शिवराजः स्वचिन्तनाग्नौ दैवेन शीतोदकं सिञ्चितमिति भावितवान् । ‘शिवराजं सगौरवं पश्यामि इति’ जयसिंहाय वचनं द्त्तवान् औरङ्गजेबः स्ववचोव्याघातं कुर्वन् शिवराजम् अपमानितवान् । शिवराजः परं क्रोधाग्निना ज्वलितः । औरङ्ग्जेबस्य यथा अपमाननं भवेत् तथा राजसभां त्यक्त्वा गतवान् । किन्तु शिवराजः महत्याम् आपदि पतितवान् । हस्तगतं शत्रुं त्यक्तुं मूर्खः न चक्रवर्ती । शिवराजं बद्धवा तस्य शिरश्छेदं कर्तुम् आज्ञप्तवान् । एतादृशस्थितावपि शिवराजः स्वधैर्यं न त्यक्तवान् । विपदि स्थितौ शिवराजस्य बुद्धिः, धैर्यं च वेगेन कार्यं करोति स्म । हठात् शिवराजः रुग्णः । तस्य स्वास्थ्यं दिने दिने क्षीयमाणम् अभवत् । ‘स्वेन सहागताः महाराष्ट्रसैनिकाः प्रतिगन्तुम् अनुमन्यन्ताम्’ इति सः औरङ्गजेबं प्रार्थितवान् । चक्रवर्ती अनुमतवान् । स्वस्थ्यप्राप्तये साधुभ्यः, सन्यासिभ्यः च मधुरवितरणमारब्धवान् । नगराधिकारिभ्यः अनेकपुरस्कृतीः प्रेषयति स्म । एतेभ्यः सर्वेभ्यः औरङ्गजेबस्य अनुमतिः लब्धा । औरङ्गजेबसदृशस्याऽपि सन्देहः ईषदपि न जातः । मरणदण्डनाय निर्णीतं दिनम् आगतम् । पूर्वदिने शिवराजस्य अस्वास्थ्यम् इतोऽपि प्रवृद्धम् । तस्य शरीरस्मृतिरपि नासीत् । प्रतिदिनम् इव मधुराणां करण्डा: अन्तः आगता: । तावत्पर्यन्तं स्मृतिरहितः शिवराजः हठात् उत्थाय मधुराणां करण्डे उपविष्टवान्, स्वपुत्रं सम्भाजिराजमपि उपवेशितवान् । सेवकाः तत्क्षणं मधुराणां करण्डं शरावेगेण बद्धवा बहिः अनयन् । यथापूर्वं मधुराणां करण्डा एव गच्छन्तीति रक्षकभटाः चिन्तितवन्तः तेषां नायकः फौलादखानः कांश्चन् करण्डान् परीक्षितवान् च । तत्र केवलं मधुराण्येव आसन् । दैववशात शिवराज;, सम्भाजिराज:च यत्र आस्ताम् तत्र तस्य हस्तः न आगत: । भवानीमातु: कृपा, शिवराजस्य युक्तिः, फौलादखानस्य गर्वं इति सर्वम् अनुकूलितम् । भगवतः आशयः शिवराजः सजीवो भवेदिति । फौलादखानः? ‘त्यजतु’ इत्याज्ञप्तवान् । कारावासे शिवराजस्य शय्यायां तस्य मित्रं हीरोजि: शिवराजवत् सुप्तः । शरीरं सर्वं राङ्कवेनाच्छाद्य शिवराजस्य राजमुद्रिकासहितं हस्तं बहिः दृश्यमानं कृत्वा सः निद्राम् अभिनयति स्म अमायक इव मदारिमेहतरनामक: बालकः तस्य पादौ संवहति स्म । फौलादखानः मध्ये मध्ये अन्तः चक्षुः प्रसार्य शिवराजस्य अनामयं पृष्ट्वा गच्छति स्म । द्वितीयदिने सायङ्काले हीरोजि: उत्थितः । प्रायः चतुर्विंशतिघण्टापर्यन्तं सः निद्राणवान् । शय्यायां शय्यावस्त्राणि निद्रायमाणमानववत् विरचय्य स्वस्य साधारणवस्त्राणि धृत्वा शनैः बहिरागत्य हस्तद्वयं मुकुलीकृत्य रक्षकभटान् उदिदश्य “शनैः भाषणं कुर्वन्तु । महाराजस्य अस्वास्थ्यं तीव्रम् अस्ति । इदमिदानीं निद्रां प्राप्तवान् सः । अहम् औषधमानेतुं गच्छन्नस्मि ।” इति उक्तवा हीरोजि: अपि बहिरागतवान् । किञ्चित्कालानन्तरं एवमेव वञ्चयित्वा मदारिः अपि पलायितः । शय्यायां शिवराजः निद्रायमाण एव दृश्यते । बहिः रक्षकभटाः खड्गधारिणः सन्तः दृढं रक्षन्त्येव । प्रातः अभवत् । शिवराजस्य शिरश्छेदनं तस्मिन्नेव दिने । फौलदखानः अन्तः आगतवान् । तत्र निः शब्दवातावरणं प्रसृतमस्ति । तस्य कश्चन सन्देहः जातः । पुरतः गत्वा शिवराजं निद्रामग्नं दृष्ट्वान् । सर्वं सम्यगस्ति इति चिन्तितवान् । तत्र कोऽपि कोलाहलः नास्तीति ज्ञातवान् । शिवराज: मृतो वा इति सन्देहः आगतः । कम्बलम् अपावृत्य अपश्यत् । तत्र केवलं शय्या, उपधानं च स्तः । सः स्तम्भीभूतः । खङ्गप्रहारेणापि चलनरहित इव सम्भूतः । शिवराजः पलायितः । फौलदखानस्य स्थितिरेव एतादृशी चेत् औरङ्गजेबस्य स्थितिः कीदृशी इति ऊहितुं शक्नुमः । सः सहस्रवृश्चिकैः दष्ट इव आसीत् । तत्क्षणं शिवराजं बन्धुं सेनामाज्ञप्तवान् । सेनया चतुर्दिशः प्रसृत्य अन्वेषणम् आरब्धम् । पूर्वनिर्दिष्टप्रणाल्यनुसारं शिवराज- शाम्भराजयोः कृते अश्वौ सिद्धौ आस्ताम् । करण्डकेभ्यः बहिरागत्य तौ दक्षिणादिशं प्रस्थितौ । अतिवेगेन प्रयातौ तौ । मध्येमार्गं रामदासस्य मठाः तेषाम् अपयोगाय अभवन् । संन्यासिवेषे शिवराजः रायदुर्गं प्राप्तवान् । एकक्षणं जीजामाता शिवराजं न ज्ञातवती । अभिज्ञानानन्तरं पुत्रम् आलिङ्ग्य अनन्दाश्रूणि सारितवती । मातापुत्रयोः समागमः सर्वानन्दकरः अभवत् । दक्षिणादेशस्थाः तस्य शत्रवः ‘सः आगरातः पलायितः’ इति ज्ञात्वा भीतिम् अनुभूतवन्तः । तेषां वाक् न निस्सरति स्म् । इदानीं किं भविष्यतीति कम्पितवन्तः । एतया घतनया शिवराजस्य कीर्तिः देशे दशदिशः व्याप्ता । अत्यन्तं कपटः आसीत् औरङ्गजेबः । तस्य अक्षणोः धूलिं प्रक्षिप्य, तस्य अधीनतः, राजधानीतः, प्रतिदिनं रक्षद्भ्यः रक्षकभटेभ्यः सकाशात् आत्मानं गोपायित्वा सः पलायितवान् । सर्वाभ्यः दिग्भ्यः अनुधावतां सहस्रसङ्ख्याकानां मुघलसैनिकानाम् अक्षीणि निमेल्य सः सहस्रमीलदूरं प्रययौ । एतादृशं पराक्रमोपेतं, युक्तिमन्तम् अपूर्वं पुरुषं लोके पूर्वं कदापि , कुत्रापि ,को?ऽपि न दृष्टवान् ।