त्रिपुरायां यः षष्टि-विधानसभा स्थानानां कृते सप्ताशीति दशमलव त्रिषष्टि प्रतिशतं मतदानम् अभवत् । त्रिपुरायाः मुख्य निर्वाचनाधिकारी किरण गित्ते उक्तवान् यत् विधानसभा निर्वाचनेषु राज्येण निरन्तरम्, उच्चत-मतदान प्रतिशतस्य परम्परा परिरक्षिता । सः उक्तवान् यत् मतदानं सम्पूर्णरूपेण हिंसया मुक्तम् आसीत् । श्री- गित्तेवर्यः लोकतन्त्रस्य सशक्तीकरणाय राज्यस्य नागरिकेभ्यः धन्यवादान् समर्पितवान् । सम्पूर्णसुरक्षया सह विद्युदीय मतदान- यन्त्राणि स्ट्रांग रूम इति प्रकोष्ठे वर्तन्ते । अवधेयं यत् मार्च द्वितीयदिनांके मतगणना भविष्यति ।
नागालैण्डराज्ये फरवरीमासस्य सप्तविंशतिदिनांके मतदानं भविष्यति, तस्मात् निर्वाचनीय प्रचारोपि प्रकर्षेण जायते। विभिन्नेषु जनपदेषु भाजपेतिदलस्य प्रत्याशिनां पक्षे प्रचारकार्य विधातुं केन्द्रीय- विशिष्ट प्रचारकानां नेतॄणां समवायः नागालैण्डं प्राप्नोति । भाजपेतिदलस्य वरिष्ठनेता केन्द्रीयमन्त्री च सर्बानंदसोनोवालः मोन टाउन-मध्ये एकां जनसभा सम्बोधितवान्। मेघालये अथ नागालँडे निर्वाचन प्रचाराः जवेन प्रचलन्ति। भाजपादलस्य वरिष्ठ नेता अथ केन्द्रीय- गृहमन्त्री श्री-अमित शाहः मेघालयस्य पश्चिमी गारो पर्वतीय मण्डलस्य गारो-बाड़ा जनपदे जनसभा सम्बोधितवान्। सः उक्तवान् यत् भाजपादलं राज्ये भ्रष्टाचार मुक्त पारदर्शी शासनार्थ प्रतिबद्धः अस्ति । गृहमन्त्री उक्तवान् यत् नेशनल पीपुल्स पार्टी सर्वकारस्य कुशासनेन अथ भ्रष्टाचारेण मेघालयस्य स्थितिः दूषिता वर्तते । तेन उक्तं यत् यदि भाजपा-सर्वकारः घटितो भविष्यति तर्हि उच्चतम न्यायालयस्य सेवानिवृत्त न्यायाधीशस्य अध्यक्षतायां भ्रष्टाचारस्य सर्वेषां प्रकरणानाम् अन्वेषणं विधास्यते । श्री-अमित शाहः उक्तवान् यत् प्रधानमन्त्रिणा नरेन्द्र मोदिना उग्रवादी अथ चरमपंथी समूहैः सह सफलवाती कृत्वा पूर्वोत्तर राज्येषु शान्तिस्थापनं कृतम् । नागालैण्डराज्ये फरवरी-सप्तविंशति दिनांके मतदानं भविष्यति । अन्यत्र, नागालैंडे अपि फरवरी-सप्तविंशति-दिनांके भविष्यमाणमतदानाय प्रचाराः वेगेन प्रचलन्ति । भाजपा दलस्य केन्द्रीय विधि-न्याय मन्त्री श्री किरेन रिजिजू, केन्द्रीय जल मार्गमन्त्री सर्वानंद सोनोवाल, भाजपा राष्ट्रिय महासचिवः बी. एल. सन्तोषः च मुख्य प्रचारकरूपेण अद्य नागालैंडस्य विभिन्न- भागेषु प्रचारं अकुर्वन् ।











