पिशाच्योः कृपा ( कथा प्रथम भाग: )

श्रीरङ्गपुर नामके ग्रामे रामः नाम कश्चित् आसीत् । तस्य मित्रं देवराजः । तौ प्रतिवेशिनौ । तौ उभौ अपि सामान्ये कुटीरे वसतः स्म । द्वयोः कुटीरयोः मध्ये एकः वटवृक्षः आसीत् । वृक्षं परितः वितर्दि निर्माय तत्र उपविश्य तौ तदा तदा जल्पनं कुरुतः स्म ।
कदाचित् तत्र उपविश्य जल्पनसमये देवराजः – “भोः मित्र, अग्रे कदाचित् आवाभ्यां बहुधनं सम्पाद्य गृहनिर्माणं करिष्यते चेदपि एषः वृक्षः वितर्दिः च तथैव रक्षणीयः । अत्र एव उपविश्य आवां तदा तदा सम्भाषणं करवाव” इति उक्तवान् ।
“तथैव भवतु मित्र । किन्तु मम एका सूचना अस्ति । एषा वितर्दिः मृत्तिकया निर्मिता अस्ति । अस्याः उपरि अमृतशिलानाम् आवरणम् करवाव । तदर्थं महान् व्ययः कोऽपि करणीयः न भवेत् ।
पञ्चसहस्त्रं रूप्यकाणि पर्याप्तानि भवेयुः इति उक्तवान् रामः । देवराजः किमपि उत्तरं वक्तुम् उद्युक्तः । तावति काले नद्याः जलम् आनयन्ती रामस्य पत्नी तत्र आगता । पतिम् उद्दिश्य सा “दर्पणः भग्नः अस्ति । नगरतः नूतनः दर्पणः आनेतव्यः इति बहुवारम् उक्तं मया । मम वचनम् अशृण्वन् भवान् अत्र सुखेन उपविश्य जल्पने मग्नः अस्ति । धिक् भवन्तम् । अद्यैव नगरं गत्वा दर्पणम् आनयतु तावत्” इति उक्तवती ।
“अहं व्यर्थं कालहरणं कुर्वन् अस्मि इति चिन्तितवती वा भवती ? भाग्यदेवता यदा कदापि अस्मान् अन्विष्य आगन्तुम् अर्हति । तदा किं किं करणीयम् इति चिन्तयन् अस्मि” इति उक्तवान् ।
तावता अवकरं क्षेप्तुं बहिः आगता देवराजस्य पत्नी पतिम् उद्दिश्य “मूषकग्रहणार्थं कूटयन्त्रम् आनयतु इति
मया बहुवारम् उक्तम् । किन्तु तत् भवता न श्रूयते एव । दौर्भाग्यं मम” इति वदन्ती सरभसम् अवकरकण्डोलम् अधः स्थापितवती ।
पत्नीपीडा अपरिहार्या इति ज्ञात्वा नगरं प्रति प्रस्थितौ तौ । गमनमार्गे अरण्यम् अतिक्रम्य गन्तव्यम् आसीत् । शीघ्रं गृहं प्राप्तव्यम् इति इच्छया तौ वेगेन पदं स्थापयन्तौ आस्ताम् । तौ यदा अर्धमार्ग क्रमित्वा आगतवन्तौ तदा अनिरीक्षिततया स्तनित-तटिद्भ्यां युक्ता वृष्टिः आरब्धा । अग्रे गन्तुम् अशक्तौ तौ कस्यचित् वृक्षस्य अधः स्थितवन्तौ ।
तावता तयोः समीपे एव कुत्रचित् अशनिपातः अभवत् । तदा देवराजः भीत्या
कम्पमानः – “धिक् वर्पणं, कूटयन्त्र च राम, अद्य आवयोः इतः निर्गमन कि शक्यम् ?” इति पृष्टवान् ।
“मित्र । अलं भयेन । वृष्टिः न्यूना चेत् अद्य रात्रौ एव आवां गृहं प्राप्तुं शक्नुयाव । एतत् नाममात्रेण अरण्यम् । अत्र व्याघ्राः सिंहाः वा सर्वथा न सन्ति इति उक्तवान् रामः ।
रात्रौ वृष्टिः स्थगिता । “रक्षितौ आवाम्” इति चिन्तयन्तौ तौ ततः प्रस्थितवन्तौ । किञ्चित्कालानन्तरं ताभ्यां कश्चन वटवृक्षः दृष्टः । तत्र तस्य वृक्षस्य जटाभिः आन्दोलिकाम् एकाम् कृत्वा उभे पिशाच्यौ क्रीडतः स्म । द्वे अपि गीतं गायन्त्यौ अट्टहासं कुर्वत्यौ आस्ताम् ।
पिशाचीदर्शनात् भीतौ रामदेवराजौ पलायनार्थम् उद्युक्तौ । किन्तु पिशाचीभ्यां रामदेवराजौ दृष्टौ । तयोः एका वामना पिशाची, अपरा उन्नता पिशाची । वामना पिशाची करताडनपूर्वकं तौ आहूय “भवतोः प्राणभयं नास्ति । आगच्छताम्’ इति आहूतवती । एतत् श्रुत्वा रामदेवराजौ कम्पमानौ पिशाच्योः पुरतः आगत्य स्थितवन्तौ । तदा उन्नतपिशाची “भयं मास्तु । भवतोः विवाहः अभवत् वा ?” इति पृष्टवती ।
‘कीदृशः प्रश्नः एषः ?’ इति चिन्तयन् “विवाहितौ इति कारणतः एव क्लेशम् अनुभवन्तौ स्वः । पत्नीवचनम् उल्लवितुं न शक्नुवः इत्यतः एव नगरं प्रति प्रस्थितौ आवाम्” इति उक्तवान् । अरण्ये प्रवृत्तं सर्व निवेदितवान् च ।
सर्व श्रुत्वा सा पिशाची सम्यक् हसन्ती – “तदस्तु तावत् । पल्याः विषये भवतोः भीतिः अस्ति, उत प्रीतिः ?” इति पृष्टवती । “प्रीतिः भीतिः चेति उभयम् अपि अस्ति” इति उक्तवान् देवराजः । तादा उन्नतपिशाची भवादृशजनयोः प्रतीक्षायाम् आस्व आवाम् । गृहगमनानन्तरं यथा अत्र उच्यते तथा आचरणीयं भवद्भ्याम्” इति उक्तवती । “तथा कृतं चेत् कः लाभः ?” इति पृष्टवान् देवराजः ।
अवशिष्टम् अग्रिमे संस्करणे ….