मध्यप्रदेशे महिलानां कृते वित्तीय सहायतार्थं राज्य-प्रशासनेन अद्यप्रभृति एका योजना प्रवर्तिता । ‘लाडली बहना’ नामधेयायाः अस्याः योजनायाः अन्तर्गतं प्रतिमहिलाम् एक- सहस्ररूप्यकाणि प्रदास्यन्ते। अस्याः योजनायाः शुभारम्भं मुख्यमंत्री शिवराज सिंह चौहानः अकरोत्। भोपालनगरस्य जम्बोरी क्षेत्रे प्रायः एकलक्ष-महिलानां उपस्थितौ ‘लाडली बहना’ योजनायाः आवेदन-पत्र-पूर्ति-प्रक्रियाया: शुभारम्भं मुख्यमन्त्री विहितवान्। लाडली बहना योजनायाः मुख्योद्देश्यं राज्ये महिलानाम् आर्थिक स्वतन्त्रता वर्धनं, तासां स्वस्थ्यस्य सम्वर्धनं, पारिवारिक निर्णयेषु तासां प्रभाव-वर्धनं च वर्तते। योजनायै आवेदनपत्राणि मार्च-मासस्य पंचदश- दिनांकत: अप्रैल मासस्य त्रिंशत्-दिनांक-पर्यन्तं पूरयितुं शक्ष्यन्ते।











