त्रिपुरा-नागालैंड – निर्वाचनम

त्रिपुरा- नागालैंडयो: भारतीयजनतापार्टी-गठबंधनेन पुनरेकवारं सत्ता स्वायत्तीकृता । यत्र भाजपा-आईपीएफटी दलाभ्यां त्रिपुरायां बहुमतः कीर्तिमत्ता संस्थापिता तत्रैव एनडीपीपी-भाजपादलाभ्यां नागालैंडे बहुमतानि सम्प्राप्तानि ।
मेघालये सत्तारूढ दलम् एनपीपी इत्येतत् शीर्षत्वम् समधिगतवत्। त्रिपुरायां भाजपा-आईपीएफटी दलाभ्यां त्रयस्त्रिंशदासनानि विजितानि येषु भाजपादलेन द्वात्रिंशदासनानि समर्जितानि आसन्,तत्रैव सीपीएम-कांग्रेसदलाभ्यां चतुर्दशासनेषु विजयोऽधिगतः । नागालैंडे एनडीपीपी-भाजपागठबंधनेन सप्तत्रिंशदासनेषु विजयः सम्प्राप्तः । राष्ट्रवादी कांग्रेसदलेन सप्तासनानि अपि च नेशनल पिपुल्स पार्टीतिदलेन पञ्चासनानि अधिगतानि । राज्ये द्वे महिलाप्रत्याशिभ्यां प्रथमतया निर्वाचनं विजित्य ऐतिह्यं रचितम्।मेघालये एनपीपी इति सत्तारूढदलेन षड्विंशत्यासनेषु विजयः प्राप्तः । प्रधानमन्त्री श्रीनरेन्द्रमोदी भाजपादलम् शीर्षत्वेन प्रकर्तुं मतदातृभ्यः कृतज्ञतां विनिवेदितवान्।