पाणिनिसंस्कृत-विश्वविद्यालये हस्तशिल्पस्पर्धाया: आयोजनम्

उज्जयिनीस्थमहर्षिपाणिनि संस्कृतवैदिकविश्वविद्यालयस्य ज्योतिष-ज्योतिर्विज्ञान विभागस्य तत्त्वावधाने सोमवासरे हस्तशिल्प प्रतियोगिताया: आयोजनं करिष्यते। इयं प्रतियोगिता प्राकृत एवञ्च सम्मुच्चय वर्गाधारितं भविता। प्राकृतवर्गे प्राकृतिक संसाधनै: समुच्चयवर्गे च विभिन्नवस्तूनां समायोजनं कृत्वा प्रारूपं निर्मीयते प्रतियोगितायां विश्वविद्यालयस्य महाविद्यालयस्य च छात्रा: भागं नेष्यन्ति प्रतियोगिताया: उद्देश्यं छात्रेषु कलाकौशलस्यविकासेन सह तेषां बौद्धिकविकास: च भवेत् इत्यस्ति ।