पाणिनिसंस्कृत-विश्वविद्यालये युवमहोत्सवस्य समारोप:

वार्ताहर: – डॉ.दिनेश: चौबे

उज्जयिनीस्थेमहर्षिपाणिनि संस्कृतवैदिकविश्वविद्यालये वैक्रमाब्द: 2079 फाल्गुनशुक्ल एकादशी तदनु मार्चमासस्य द्वितीयतमे दिनाङ्के गुरुवासरे षष्ठयुवमहोत्सव: संपन्नतां मगात् महोत्सवस्य द्वितीयदिने क्रीडास्पर्धासु छात्रा: स्वप्रतिभां प्रादर्शयत्।
तदनु सायंकाले समापनसत्रे पुरस्कारप्रदानकार्यक्रम: सञ्जात: ।विश्विद्यालयस्य निर्देशने निर्मितं चलचित्रं नायकाः इत्यस्यापि प्रदर्शनं जातम्।समापनसमारोहे मुख्यातिथिरूपेण उज्जयिनी नगरनिगमस्य सभापति: कलावतीयादवमहोदया सर्वान् छात्रान् युवमहोत्सवस्य शुभकामना: पुरुस्कारा: च् प्रदत्तवती । विशिष्टातिथिरूपेण उज्जैनमण्डलस्य नेहरूयुवकेंद्रस्य मण्डलाधिकारि: श्रीमानअभिलाषमस्केमहोदय: उपस्थित: आसीत्।
कार्यक्रमे अध्यक्षरूपेण विश्वविद्यालयस्य मान्य: कुलपति: आचार्यविजयकुमार: सीजीमेननवर्य: सफलायोजनस्य सर्वान् शुभकामना: प्रदत्तवान। कार्यक्रमस्य संयोजकेन् डॉ.तुलसीदासपारौहा महोदयेन अतिथीनां वाचिकं स्वागतं सत्रसञ्चालनञ्च कृतम् । प्रतिवेदनम् डॉ. शुभम् शर्म महोदयेन प्रस्तुतम् । कार्यक्रमस्य उद्घाटनं दीपप्रज्ज्वलनेन, वाग्देव्याः चित्रपटे मालार्पणेन जातम्। तदनु वैदिकमङ्गलाचरणम्, कुलगानं अवभत्। कार्यक्रमेऽस्मिन् विश्वविद्यालयस्य डॉ. अखिलेशकुमारद्विवेदीमहोदय:, डॉ. सङ्कल्पमिश्रमहोदय: डॉ. उपेन्द्रभार्गवमहोदय: सम्बद्धमहाविद्यालयस्य
विश्वविद्यालयस्य आचार्याः, समागताः शोधच्छात्रा:, छात्रा: सामाजिकाश्च उपस्थिता: आसन् आभारप्रदर्शनं विश्वविद्यालयस्य कुलसचिवेन डॉ.दिलीपसोनीमहोदयेन कृतम्।
विवरणं युवमहोत्सवस्यप्रथमदिवसे बौद्धिक – सांस्कृतिकस्पर्धानां आयोजनम् अभूत। तत्र शास्त्रार्थस्पर्धा काव्यपाठ: श्लोकान्त्याक्षरि वादविवाद: आशुभाषणं, एकलसंस्कृतगीतं,
समूहसंस्कृतगीतं, एकलनृत्यं, समूहनृत्यं, योगासनं, रङ्गोली, शोधनिबंधलेखनादि प्रतियोगिता: अभूवन्। क्रीडाप्रतियोगितासु तत्र धावनम् , लम्बकूर्दनम् , उच्चकूर्दनम्, भल्लक्षेपणम्, चक्कक्षेपणम् , कबड्डी गोलक्षेपणादि प्रतियोगिता: आयोजिता: आसन् ।