रमण प्रभावस्य आविष्कार- जयन्त्यवसरे फरवरी मासस्य अष्टविंशति दिवसे देशे राष्ट्रिय-विज्ञान दिवसः आमान्यते । भौतिकशास्त्रिना वैज्ञानिकेन सर्-चन्द्रशेखर वेंकट रमणेन अष्टाविंशत्यधिक- एकोनविंशतिशत-तमे वर्षे अस्मिन्नैव दिवसे रमण प्रभावस्य आविष्कारः कृतः आसीत्। एतस्मै आविष्काराय त्रिंशदुत्तर – एकोनविंशत- तमे वर्षे चन्द्रशेखर वेंकट रमणः तस्य वर्षस्य भौतिक-विज्ञानस्य नोबेलिति अलंकरणं प्राप्तवान्। भारतस्य जी-विंशति-समुहस्य अध्यक्षतायाः आलोके ऐषमः वर्षस्य विज्ञान- दिवसस्य विषयं “वैश्विक-कल्याणाय वैश्विकं विज्ञानमिति । प्रधानमंत्री नरेंद्र मोदी राष्ट्रीय- विज्ञान- दिवसे सर्वेभ्यः वैज्ञानिकेभ्यः अन्वेषकेभ्यः शुभाशयाः प्रदत्तवान् । प्रधानमंत्री ट्वीट- संदेश- माध्यमेन उक्तवान् यत् भारतं विज्ञानजगते महतीं प्रगति कुर्वन्नस्ति अपि च अनुसंधानेभ्यः नवाचारेभ्यः एकायाः व्यवस्थायाः पोषणमपि करोतीति । कार्यक्रमोऽयम् आराष्ट्रे विद्यालयेषु, महाविद्यालयेषु, विश्वविद्यालयेषु अन्येऽपि शैक्षणिक-शोध-संस्थानेषु बालानां यूनाञ्च विज्ञानक्षेत्रे वृत्त्यवसरं प्राप्तयितुं प्रेरयितुञ्च आयोज्यते।











