पीएम मोदी इटलीदेशस्य प्रधानमन्त्रिणा सह मिलित्वा स्टार्टअपब्रिजविषये, सेनानां संयुक्तव्यायामविषये च सहमतिम् अददात्

भारतं- इटली चैतौ स्वसम्बन्धान् सामरिकसहयोगरूपे परिवर्तयितुं निश्चयं कृतवन्तौ स्तः। निर्णयमिदं अद्य नवदिल्ल्यां भारतस्य प्रधानमन्त्री नरेन्द्रमोदी अथ इटली देशस्य प्रधानमंत्री जियोर्जिया मेलोनी वर्याः प्रतिनिधिमण्डलस्तरीयायां वार्तायां स्वीकृतम्। संयुक्त- पत्रकार-सभां सम्बोधयन् श्रीमोदी उक्तवान् यत् अस्मिन् वर्षे भारतं इटली च स्वीयद्विपक्षीय- सम्बन्धस्य पञ्चसप्तति-वार्षिकी जयन्तीं संकीर्तयतः । वातार्या स्वस्य आर्थिकसम्बन्धान् सुदृढ़ी कर्तुं अपि बलं दत्तवन्तः । श्रीमोदिना इदमपि उक्तं यत् उभौ देशौ मिलित्वा आतंकवादस्य पृथक्तावादस्य च विरुद्धं युद्धं कुर्वन्नस्तः । यूक्रेनविवादस्योपरि श्रीमोदी अवदत् यत् भारतेन स्पष्टं कृतं यत् अस्यविवादस्य समाधानं केवलं वार्तया कूटनीत्या च माध्यमेन एवं कर्तुं शक्यते। अस्मिन्नवसरे वदन्त्याः जियोर्जियो मेलोनी इत्यस्याः कथनमस्ति यत् द्वयोः देशयोः स्वसंबन्धं सामरिक सहयोगरूपे परिवर्तयितुं निर्णयः कृतोस्ति। सा प्रकाशितवती यत् द्वयोः देशयोः द्विपक्षीय् व्यापारः पञ्चसहस्रकोटि- यूरो-मुद्रात्मकं जातम्।