संस्कृतविश्वविद्यालये संस्कृत विदुषां सङ्गोठी सुसम्पन्ना

उज्जयिनीस्थे महर्षिपाणिनिसंस्कृतवैदिक विश्वविद्यालये संस्कृतशिक्षण प्रशिक्षणज्ञानविज्ञानसंवर्धन केन्द्रस्य तत्वावधाने मान्य:कुलपति: आचार्यविजयकुमारसीजीवर्यस्य परिकल्पनया संस्कृतसंवर्धनाय शास्त्रसंरक्षणाय च उच्चशिक्षाविभागे कार्यरतानां स्थानीयसंस्कृतविदुषां संस्कृतसपर्या इति प्रकोष्ठानन्तर्गते एका संगोष्ठी आयोजिता संगोष्ठीरियं नवीनशिक्षानीति: संस्कृतसंवर्धनं नवाचार: समस्यापरिहाराश्च विषयिका आसीत् कार्यक्रमे अध्यक्षरूपेण साहित्यविभागप्रमुख:डॉ. तुलसीदासपरौहामहोदय: उक्तवान् यत् ‘विद्यालयीछात्राणां संस्कृतभाषां प्रति रुचिं वर्धनाय। योजना निर्मातव्या । केन्द्रस्य निदेशक:व्याकरणविभागप्रमुखश्च डॉ.अखिलेशकुमारद्विवेदी महोदय: प्रस्तावना स्वागतभाषणं च प्रस्तुतवान् । उज्जयिनीस्थ शासकीयसंस्कृतमहाविद्यालयस्य आचार्याः डॉ. हिम्मतलालशर्मा , डॉ. श्रेयसकोरन्ने ,डॉ.यशशर्मा, डॉ.जयकुमारतिलवानी , श्रीविद्यासागरपांडे , श्रीशिवांशशुक्लादया:, शासकीय: माधवकलावाणिज्य महाविद्यालयत: डॉ.नलिनी तिलकरमहोदया विश्वविद्यालयस्य डॉ. उपेन्द्रभार्गवमहोदय: , डॉ. संकल्पमिश्रमहोदया: विश्वविद्यालयस्य अन्ये आचार्या: स्वविचारान उपस्थापित्वन्त:।
अस्मिन्नवसरे उज्जयिनीमण्डलस्य महाविद्यालयस्य विश्वविश्वविद्यालयस्य च प्राध्यापकाः, समुपस्थिताः आसन् दीपदीपनं मङ्गलाचरणात् परं सङ्गोष्ठ्या शुभारम्भः जातः ।
कार्यक्रमस्य संयोजनं डॉ. दिनेशचौबेमहोदयेन कृतम् । अस्यां विचारसङ्गोष्ठ्यां पाठ्यक्रमाणां सरलीकरणं, नवीन पाठ्यक्रमाणानां निर्माणं, संस्कृतक्षेत्रे उद्योगावसराः इत्यादिविषयेषु चर्चा जाता।
कल्याणमन्त्रेण सह सभा समाप्ता ।