शिवनागपुरनामके कस्मिंश्चित् ग्रामे सोमनाथः इति कश्चित् निवसति स्म । तस्य विवाहसमनन्तरम् एव आषाढमासः सन्निहितः । स्नुषाश्वश्रूभ्यां, श्वश्रूजामातृभ्यां च आषाढमासे एकस्मिन् एव गृहे वासः न करणीयः इति काचित् प्रथा अस्ति । अतः सोमनाथः पत्नीं मातृगृहं प्रापय्य प्रत्यागतवान् ।
कानिचन दिनानि अतीतानि आषाढमासः समाप्तः । सोमनाथस्य पिता पुत्रम् आहूय – ‘पुत्र ! तण्डुलं गुडं च स्वीकृत्य शास्त्रिणे दत्त्वा मुहूर्त निश्चित्य आगच्छतु । ततः मात्रा सह श्वशुरगृहं गत्वा पत्नीम् आनयतु'” इति उक्तवान् ।
पितुः सूचनानुसारं सोमनाथः तण्डुलं, गुडं, लवणं, कदलीफलं, तिन्त्रिणीं च स्वीकृत्य पुरोहितस्य गृहं गतवान् । सोमनाथस्य आगमनकारणं पृच्छन् पुरोहितः सोमनाथेन आनीतेषु वस्तुषु दक्षिणा नास्ति इति अवलोकितवान् । अतः सः – “किं भोः, सोमनाथ । नवोढः खलु भवान् ? कः विशेषः ? इतोऽपि अर्धघण्टां यावत् उत्तममुहूर्तः नास्ति । तावत् पञ्चाङ्गपुस्तकस्य स्पर्श न करोमि अहम् । कार्यरहिततया स्थितिः भवतः अपि क्लेशाय भवेत् । अतः भवान् एकं कार्यं करोतु । वाटिकायां विद्यमानानां तुलसीसस्यानां जलसेचनं करोतु । अर्धघण्टानन्तरं मुहूर्तं ज्ञात्वा वक्ष्यामि इति उक्तवान् ।
अनन्यगतिकः सोमनाथः वाटिकां गत्वा जलसेचनम् आरब्धवान् । तदा पुरोहितस्य पत्नी पूजापात्राणि तत्र क्षालयन्ती आसीत् । सा सोमनाथं दृष्ट्वा “पल्याः आगमनानन्तरं सा भवतः मातुः साहाय्यं यथा कुर्यात् तथा बोधनीया । मम स्नुषा एका अस्ति । भगिन्याः पुत्री एव सा ।
किन्तु किं वा वदानि ? सा महाराज्ञी इव व्यवहरन्ती मां तु तृणाय मन्यते” इति उक्तवती । सोमनाथः किमपि वक्तुम् उद्युक्तः । तावता पुरोहितस्य स्नुषा तत्र आगतवती । दवीं चालयन्ती सा – “किम् एतत् ? गृहकलहस्य विषये अन्येषां पुरतः कथनं किम् उचितम् ?’ इति उच्चध्वनिना पृष्टवती ।
अनन्तरं द्वयोः महान् वाक्कलहः अरब्धः । एतं कलहं श्रुत्वा ‘इतःपरं मम गृहे अपि एतादृशकलहः एव भविष्यति चेत् का गतिः’ इति चिन्ताक्रान्तः अभवत् सोमनाथः ।
जलसेचनकार्य समाप्य सोमनाथः पुरोहितसमीपम् आगतवान् । पुरोहितः तम् उद्दिश्य “प्रसादं स्वीकरोतु । श्वशुर- गृहगमनाय मुहूर्तम् अपि अन्विष्टवान् अस्मि । तत् भवतु । वरलक्ष्मीव्रताचरणार्थं पल्यै शाटिकां सुवर्णाभरणं च अविस्मृत्य नेष्यति एव खलु भवान् । तथैव पुरोहिताय दक्षिणा अपि अविस्मृत्य दातव्या” इति वदन् परोक्षरूपेण दक्षिणा न दत्ता इति विषयं स्मारितवान् ।
अनन्तरदिने सोमनाथः मात्रा श्वशुरगृहं गतवान् । पुरोहितेन सूचिते मुहूर्ते पत्नीम् अपि स्वग्रामं प्रति आनीतवान् च । सोमनाथस्य श्वशुरगृहे उत्तमं गौरवं लब्धम् आसीत् इति कारणतः सोमनाथस्य माता सन्तुष्टा आसीत् । मात्रा सह ततः कानिचन दिनानि सुखेन गतानि । गृहकार्ये चतुरा सोमनाथस्य पत्नी श्वश्रवाः कार्ये सर्वदा साहाय्यं कुर्वती तस्याः प्रीतिं सम्पादितवती आसीत् । कदाचित् सोमनाथस्य माता सोमनाथम् उद्दिश्य “वंशोद्धारकः पुत्रः, गृहलक्ष्मीः पुत्री च स्यात् इति सर्वदा ज्येष्ठाः वदन्ति । किन्तु मम कापि पुत्री नासीत् । देवकृपया उत्तमां स्नुषाम् एव प्राप्तवती अस्मि । मातृवत् मयि प्रीतिं प्रदर्शयति एषा” इति अभिमानपूर्वकम् उक्तवती । इदं श्रुत्वा मनसि एव आनन्दम् अनुभवन् आसीत् सोमनाथः ।
एवं सति नूतना स्नुषा द्रष्टव्या इति अमृतपुरतः सोमनाथस्य मातुः अनुजा पार्वती आगतवती । तया सह सम्भाषमाणा सोमनाथस्य माता स्नुषायाः कार्यकौशलं वर्णयन्ती श्लाघितवती । श्रश्रवाः वचनं पुरस्कुर्वती इव सोमनाथस्य पत्नी तयोः विषये अत्यन्तम् आदरं प्रदर्शितवती । पार्वत्याः अग्रजा सर्वदा स्नुषाम् अवलम्ब्य एव तिष्ठति स्म इति कारणतः पूर्ववत् अग्रजया सह सम्भाषणं कर्तुं न शक्तवती पार्वती । एतेन सोमनाथस्य पल्याः विषये असूयां प्राप्तवती सा । गमनसमये सा अग्रजाम् उद्दिश्य -“भगिनि । भवर्ती दृष्ट्रा बहु दुःखम् अनुभवामि । स्नुषा एव अत्र सूत्र- चालनकार्य निर्वहन्ती अस्ति । ज्येष्ठा भवती तृणसमा अत्र । भवत्याः ज्येष्ठत्वस्य गौरवं न्यूनीभवत् अस्ति” इति उक्तवती । पार्वत्या आरोपितं विषबीजं फलितम् अभवत् । तस्याः पतिः पुत्रः च क्षेत्रादिकं प्रति गमनसमये स्नुषा एव उक्त्वा गच्छतः स्म । एतत्सर्वं सोमनाथस्य मातुः असन्तोषाय जातम् । ‘सर्वे मम स्नुषां पुरस्कुर्वन्तः मां तृणीकुर्वन्ति’ इति चिन्तितवती सा ।
कदाचित् क्षालनयोग्यानि वस्त्राणि नेतुं रजकस्य पत्नी सोमनाथस्य गृहम् आगतवती । तस्यै वस्त्राणि ददती किमपि वक्तुम् उद्युक्ता सोमनाथस्य माता । तदा रजकपनी उक्तवती – “हा हन्त ! किम् एतत् ! वार्धक्ये भगवन्नामस्मरणपूर्वकं कालः यापनीयः । किन्तु भवती तु गृहकार्ये आत्मानं प्रवर्तयन्ती क्लेशम् अनुभवति । अलम् एतया प्रवृत्त्या । ..अवशिष्टम् अग्रिम् अङ्के …











