केन्द्रीय गृह मन्त्रालयेन सी.आई.एस.एफ. इति केन्द्रीय औद्योगिक सुरक्षा-बले अग्निवीरेभ्यः प्रतिशतं दश-मितानां पदानाम् आरक्षणं घोषितम्। अनया घोषणया अग्निवीरेभ्यः अधिकतम आयु सीमा-प्रसङ्गे शैथिल्यं प्रदास्यते । सहैव पूर्व-अग्निवीराः शारीरिक योग्यता परीक्षणे अपि लाभान्विताः भविष्यन्ति । सीमा- सुरक्षा-बले अग्निवीराणां कृते प्रतिशतं दश- मितस्य आरक्षण- प्रदानस्य घोषणायाः कतिपय-दिनानाम् अनन्तरम् एव एषा घोषणा जातास्ति । अधिसूचनायाः अनुसारेण प्रथम-समूहस्य अग्निवीर प्रत्याशिभ्यः अधिकतम आयु सीमा- प्रसङ्गे पञ्च-वर्षाणां लाभः प्रदास्यते। तत्रैव अन्य समूहानां अग्निवीर- प्रत्याशिभ्यः अधिकतम आयु सीमा- प्रसङ्गे वर्ष-त्रयस्य सौविध्यं प्रदास्यते।











