दक्षिणदिल्लीपरिसरसंस्कृतविभागेन दिल्लीविश्वविद्यालयस्थेन अभिराजयशोभूषणम् इति ग्रन्थमभिलक्ष्य पञ्चदिवसीया कार्यशाला आयोजिता । सर्वप्रथमं वैदिकमङ्गलाचरणं दीपप्रज्वलनञ्च जातम्। अनन्तरं डॉऋषिराजपाठकः लौकिकमङ्गलाचरणरूपेण डॉ अभिराजराजेन्द्रमिश्रद्वारा विरचितपद्यानां गायनम् अकरोत् । कार्यशालायाः सञ्चालनं डॉ भारतेन्दु पाण्डेयवर्येण कृतम्। एतस्यां कार्यशालायां सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य कुलपतिः डॉ अभिराजराजेन्द्रमिश्रः, रानीदुर्गावतीविश्वविद्यालयस्य संस्कृतविभागाध्यक्षः रहसबिहारीद्विवेदी, कलासंकायस्य अधिष्ठाता अमिताभचक्रवर्ती, जामिया मिलिया इस्लामिया विश्वविद्यालयस्य संस्कृतविभागाध्यक्षः डॉ गिरीशचन्द्रपन्तः, दिल्लीविश्वविद्यालयस्य संस्कृतविभागस्य अध्यक्षः डॉ ओमनाथबिमली च उपस्थिताः आसन्। कार्यशालायां रहसबिहारीवर्येण स्वीये वक्तव्ये उक्तं यत् शास्त्रस्य ज्ञानं न केवलं पठनाय अपितु पाठनाय अपि आवश्यकमस्ति । अभिराजराजेन्द्रमिश्रवर्येण उक्तं यत् आलोचकानां मध्ये आधुनिककाव्यस्य लेखनम् अत्यधिक कठिनम् आसीत्, किन्तु असम्भवं नासीत्। संस्कृतं मृतभाषा न अपितु तत्त्वयुक्तभाषा अस्ति। संस्कृतस्य तथा च प्रतिभायाः क्षरणं युगपरिवर्तनकारणेन तु जातमेव किन्तु क्षरणमिदं प्राचीनकाले एवं अभवत्। असौ एतदपि कथितं यत् वेदानां गूढतत्त्वानि स्पष्टीकर्तुं वेदाङ्गानि वर्तन्ते न तु केवलाङ्गमात्रत्वेन । तेनोक्तं यत् काव्यं सामान्यजनानां भाषा नास्ति यतोहि केवलर्थास्य ज्ञानमेव विद्वता न अपितु प्रत्येकस्य काव्यस्य महावाक्यं भवति, तस्य ज्ञानमेव अस्ति विद्वत्ता । तेनोक्तं यत् सामान्यजनेभ्यः काव्यस्य ज्ञानं कठिनम् इति मन्ये । अस्याः कार्यशालायाः प्रथमः दिवसः ह्यः सायं सप्तवादने सम्पूर्णः । अदय द्वितीयो दिवसो अवर्तत । अस्याः समापनम् अस्य मासस्य द्वाविंशति- दिनाङ्के भविष्यति।











