प्रधानमन्त्री श्रीनरेन्द्र मोदी नव-दिल्ल्या: पूसा-स्थितस्य भारतीय- कृषि अनुसन्धान-संस्थानस्य राष्ट्रिय कृषि विज्ञान-परिसरस्य सुब्रमण्यम सभागारे ग्लोबल मिलेट्स इत्याख्यं श्रीअन्न सम्मेलनम् उद्घाटनं कृतवान । प्रधानमन्त्री एतस्मिन् अवसरे सभामपि सम्बोधितवान।
धेयमस्ति यद् भारतस्य प्रस्तावस्य आधारे, संयुक्त राष्ट्र महासभा द्वारा ऐषम: वर्षम् अन्ताराष्ट्रिय श्री अन्न-वर्षत्वेन घोषितम् आसीत्। एतद् अतिरिच्य, श्री- अन्न-वर्षोत्सवम् एकं ‘जनान्दोलनम्’ कर्तुं भारतम् ‘श्री अन्नस्य कृते वैश्विक केन्द्रत्वेन’ स्थापयितुम् अपि प्रधानमन्त्रिणः दृष्टिकोणस्य अनुरूपं, केन्द्रसर्वकारस्य सर्वे मन्त्रालयाः, विभागाः, राज्याणि, केन्द्रशासिताः प्रदेशा:, कृषकाः अन्य हितधारकाश्च प्रयोजिताः सन्ति । प्रधानमन्त्री नरेन्द्रमोदी अवदत् यत् श्री-अन्नेन देशस्य सार्धकोटिलघुकृषकाः लाभान्विताः भविष्यन्ति अपि च अस्माकं ग्रामीण-अर्थव्यवस्थापि अनेन सुदृढा भविष्यति। नवदेहल्याम् अन्ताराष्ट्रियश्रीअन्न-सम्मेलनस्य उद्घाटनावसरे सः प्रोक्तवान् यत् स्थूलान्नेन जलवायुपरिवर्तनस्य कोपि दुष्प्रभावः न भवति अपि च अनेन जलसंकटसम्बद्धसमस्यानामपि समाधाने साहाय्यं भवितुं शक्नोति। प्रधानमन्त्री अवदत् यत्वयं मित्रदेशानां मध्ये स्थूलान्नानाम् उत्पादनस्य प्रक्रियां परस्परं विनियोक्तुं शक्नुमः तेन स्थिरा काचित् व्यवस्था विकसयितुं शक्नोति। सः अवदत् यत् अनया व्यवस्थया काचित् एतादृशी आपूर्ति शृंखला विकासं प्रति गन्तुं शक्नोति यतः स्थूलान्नानि सुदृढप्रकारेण क्षेत्रतः विपणिपर्यन्तं नेतुं शक्ष्यन्ते । श्रीमोदिना कथितं यत् देशस्य समस्तान्नोत्पादने स्थूलान्नस्य सहभागिता प्रायः षड्-प्रतिशतं वर्तते। सः वैज्ञानिकानाम् अनुसन्धातृणाम् आह्वानं कृतवान् यत् एतस्मिन् अभियाने ते सहयोगं कुर्युरिति। श्रीमोदी अवदत् यत् अयं गर्वस्य विषयो वर्तते यत् संयुक्तराष्ट्रेन भारतस्य श्रीअन्नविषयकः प्रस्तावः स्वीकृतो यत् त्रयोविंशत्यधिकद्विसहस्रतमवर्षम् अन्ताराष्ट्रियस्थूलान्नवर्षरूपेण घोषितं स्यात् । प्रधानमन्त्रिणा इदमपि कथितं यत् स्थूलान्नानि अस्माकं स्वास्थ्यस्य मृदायाश्च कृते संमीचीनानि सन्ति, अपि च एतैः जलवायुपरिवर्तन समस्याः न भवन्ति, खाद्यसुरक्षायाः जीवनशैल्याश्च कृते समुचितं वर्तते अनेन सहैव नैकेषां रोगाणां समाधानं चिकित्सा चापि एतेषाम् अन्नानां प्रयोगेण भवति। श्रीअन्नस्य सम्बन्धः न केवलं अस्माकं आहारेण कृषिणा एव नास्ति अपितु इदं अस्माकं देशस्य समृद्ध्यर्थमपि साधनरूपं वर्तते, श्रीमोदिना अंते कथितं यत् सर्वकारः स्थूलान्नस्य उत्पादककृषकाणां समृद्ध्यर्थं नैकान् उपायान् अपि प्रकल्पयति।











