भारत ऑस्ट्रेलिया – शिखर सम्मेलनम्

प्रधानमन्त्री नरेन्द्रमोदी तस्य ऑस्ट्रेलियायाः समकक्षः एण्टनी एल्बनीज् च मार्च मासस्य नवम् दिनाङ्के गुजरातस्य अहमदाबादं सम्प्राप्तानन्तरं अहमदाबादस्य नरेन्द्रमोदी-क्रीडाङ्गणे भारतास्ट्रेलिययोर्मध्ये बार्डर-गावस्कर इस्येतस्मै पुरस्काराय क्रीडिष्यमानायाः चतुर्थ्या: निकस्पर्धायाः प्रथमे दिने उपस्थितौ । अस्य कार्यक्रमस्य आयोजनं भारतास्ट्रेलिययोर्मध्ये क्रिकेट्- क्रीडा-सम्बन्धस्य पञ्चसप्तति-वर्षपूर्त्यवसरे अभवत् । ऑस्ट्रेलियाया: प्रधानमन्त्री एण्टनी एल्बनीज् साबरमती आश्रमस्य यात्रां कृतवान् अपि च महात्मगाँधिने श्रद्धांजलिं समर्पितवान्। असौ गान्धीनगरस्य राजभवने होलिकोत्सवे एकस्मिन् सांस्कृतिककार्यक्रमे च भागं गृहीतवान्। तदनन्तरम् मुम्बइनगरे एतस्मै ‘आईएनएस विक्रान्त’ इत्येतस्मिन् ‘गार्ड ऑफ ऑनर’ इत्येतेन पुरस्कारेण सम्मानं प्रदासितवान्। ध्यातव्यमिदं यत अयं प्रथमः स्वदेशे निर्मित-विमानवाह-पोत: वर्तते।
अनन्तरं उभौ नेतारौ नवदिल्ल्यां पारस्परिक-हितानां क्षेत्रीय-वैश्विक प्रकरणेषु, भारतास्ट्रेलियायोः मध्ये व्यापक-रणनीतिक-सहमत्यान्तर्गतं सहयोगक्षेत्रेषु च चर्चायै वार्षिक- शिखर सम्मेलने भागं अगृह्णीताम् । राष्ट्रपतिभवनस्य प्राङ्गणे एल्बनीज् वर्यस्य औपचारिकरूपेण स्वागतं अभवत् ।
द्विपक्षीयवार्ता मध्ये उभौ नेतारौ भारत-ऑस्ट्रेलिययोः मध्ये व्यापक-रणनीतिक-सहमतिं वर्धयितुं विभिन्न प्रकरणेषु चर्चा कृतवंतौ । उभयदेशेषु क्रीडायाः दृश्य-श्रव्य-सहनिर्माणे च सहकार्यं कृत्वा ज्ञापनस्य आदान-प्रदानं कृतम् । भारतीय ऑस्ट्रेलिया-पक्षयोः भारत-ऑस्ट्रेलिया सौर्य कार्यदलस्य, अटल नवाचार- उद्देश्यस्य, राष्ट्रमण्डल-वैज्ञानिक-औद्योगिक अनुसन्धान-संघटनस्य च आशय पत्रस्य च आदान-प्रदानं कृतम् । अवधेयं यत् नरेन्द्रमोदी अवोचत् यत् भारतेन ऑस्ट्रेलियादेशेन च सहकार्य अधिकं सुदृढं कर्तुं व्यापकविमर्शः कृतः । श्री मोदी ऑस्ट्रेलियादेशस्य प्रधानमन्त्रिणा सह ऑस्ट्रेलियादेशस्य मन्दिरेषु आक्रमणस्य विषयं उत्थापितवान् सहैव श्री मोदिना प्रतिप्रादितं यत् एल्बनीज् महोदयेन आश्वासितं यत् ऑस्ट्रेलियादेशे भारतीयसमुदायस्य सुरक्षा, कल्याणं च तस्य प्राथमकिता वर्तते।